________________
286
हेतुस्वरूपविचार:
न्यायमञ्जरी
यदि त्वनलमुत्सृज्य घटादावन्धयग्रहः । - नान्तर्व्याप्तिहीता स्यात् साध्यसाधनधर्मयोः ॥ १५३॥ ततश्चैवंविधातोः स्वसाध्यनियमोयितान।। साध्याभिलाष इत्येवं षण्डानुनयदोहदः ॥ १५४॥
अन्वयपूर्वकत्वाच्च व्यतिरेकग्रहणस्य तन्निराकरणे तदपाकरणमवगन्तव्यम् ॥
अपि च सिषाधयितधर्मवैपरीत्येन वह्नः प्रत्यक्षतो निश्चयात् वस्तुवृत्तन स एव विपक्ष इति न ततो व्यतिरेकः कृतकत्यस्येति । तस्मात् लक्षण्यापायादेव हेत्वाभासोऽयमिति न रूपान्तर. मबाधितावषयत्वमपेक्षते ।।
हेतोरबाधितत्वमपि दुरधिगमम्] कथं चेदमबाधितत्वं निश्चीयते ? न ह्यदर्शनमात्रेण बाधाविरहनिश्चयः । सर्वात्मना हि नास्तित्वं विद्यः कथमयोगिनः ॥ १५५ ॥ अनिश्चिने तदङ्ग च न हेतोहेतुता भवेत् ।
यथैव पक्षधर्मादिरूपाणामनुपग्रहे ॥१५६ ॥ तस्मादबाधितत्वं रूपान्तरमवचनी यमिनि ॥
अनुमितेन्तु न तराम् । एवं स्थिते कस्याहतोतुत्ववारणायाबाधितत्वं पृथक संपादनीयमिति॥
ननु पक्षान्तर्भावेण कथं व्यभिचारापादन ? इति शङ्कायामाह---. यदीति। अन्ताप्तिरिति। पक्षे साध्यसिध्यनुकूला व्याप्तिः इत्यर्थः । यो हेतुमान् स साध्यवान् इति व्याप्तौ यदि पक्षः सामान्यतो वा कदाचिदपि धर्मितया न भासेत, तर्हि प्रकृतसाध्यनिरूपितव्याप्तयभावन पझे साध्यसाधनासमर्थाद्धेतोः साध्यसाधनप्रयासः पुत्रावाप्तये षण्डानुनयप्रायासायेतेति । अन्वयेति । व्यतिरेकव्याप्तिरपि अन्वयव्याप्तिपोषणायेव ।
वस्तुनः वृत्त-शीलं स्वभाव इति यावत् ॥
नास्तित्व बाधाभावः । अयोगिनः- असर्वज्ञाः । तदङ्ग---हतो. रङ्गभूतेऽबाधितत्वे। यथा हेतोः पक्षवृत्तित्वादिज्ञानविरहे स हेतुरसाधकः, एवं सर्वोऽपि हेतु: अबाधितत्वस्य ग्रहीतुमशक्यतया असाधक एव स्यादिति ॥