________________
आह्निकम २१ हतुषाः
285 बाधितत्वं पक्षस्येव, न हेतोः] यञ्चेदमग्न्यनुष्णत्वसाधने कृतकत्वं त्रिलक्षणमपि बाधकविधुरितविषयमित्युदाहृतम्-तत् असमीक्षिताभिधानम् ; अत्र त्रैलक्षण्यानुपपत्तेः । पक्षधर्म एव तावदयं न भवति । प्रत्यक्षाद्यनिराकृतो हि पक्ष उच्यते । न चायमीदृश इत्यपक्ष एव। तो हेतुः कथं पक्षधर्मः स्यात् ॥
नाप्ययमन्वयी हेतुः; अन्वयग्रहणसमय एव तद्विप्लवावधारणात् । अन्वयो हि गृह्यमाणः सक्षिपेण --यद्यत् कृतकं, तत्तदनुष्णम् -इत्यवं गृह्यते। ततश्च तद्गहणसमय एव - अयमुष्णोऽपि कृतक इति हृदयपथमवतरति तनूनपात् - इति कथमन्यय. ग्रहणम्? .
___ ननु कृतकत्वस्य वही सत्त्वात् कथमत्र पक्षधर्मताविरहः? इत्याशंक्य वह्नः पक्षत्वमेव न संभवतीति हेतोः पक्षवृत्तित्वं नास्त्येवेत्युपपादयति-- यच्चदमित्यादि। पक्षधर्मः पक्षवृत्तिरिति यावत् । प्रत्यक्षादीति । तथोक्तं न्यायबिन्दौ-- ‘स्वरूपेणैव स्वयमिष्टोऽनिराकृत: पक्षः' (3-38) इति । व्याख्यातं च ग्रन्थ कारेणैव-- य: साधयि नुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते, न स पक्ष: ' (18) इति । धर्मोत्तराचार्योऽप्याह ... ' प्रत्यक्षादिभिरनिराकृतः इति । अपक्ष इति । साध्यवत्तया गृहीते पक्षे सत्वं हि लक्षणम् । प्रकृते च वह्वा अनुष्णत्वं प्रत्यक्षबाधितमेवेति कथं तत्य पक्षत्वमित्यर्थः। तथा च अयं बाध: पक्षदोष एव, न तु हेतुदोषः, हेतोस्तु पक्षधर्मत्वाभाव एव दोषः, न बाध इति ॥
. ननु पक्षे साध्यस्यासि द्वया नैवं दूपयितुं शक्यमिति शङ्कायाम् - तात्र बाधाभावेऽस्य प्रसज्यमानं हेतुत्वं किमन्वयरूपम् ? उत व्यतिरकरूपम् ' इति विकल्प्य दूषयांत - नापीत्यादिना। सर्वाक्षेपेण--- उत्सर्गत:-- सर्व क्रोडीकृत्येति यावत् । अयं तनून पात् इत्यन्वयः । अयं भाव:----यद्यत् कृतकं तत्तदनुष्णं यथा घटादि--इति खलु व्याप्तिग्राह्या। तत्र कृतकसामान्यस्यैव व्याप्तौ भानमनुभवसिद्धम् । कृतकसामान्यान्तर्गते च वह्नावनुप्णवं प्रत्यक्षबाधितमेवेति यद्यत् कृतकं तत्तदनुष्णमिति व्याप्ते रुन्मेष एव नास्ति ।