________________
284 हेतुस्वरूपविचारः
न्यायमञ्जरी ' यस्य पक्षधर्मता नास्ति---असावसिद्धो हेत्वाभासः। यथानित्यः शब्दः, चाक्षुषत्वात् ॥
__ साध्यविपर्ययव्याप्तस्तु विरुद्धः। स यथा--नित्यः शब्दः, कृतकत्वात् , आकाशवत् ॥
'विपक्षेऽसत्त्वं यस्य नास्ति सोऽनैकान्तिकः। यथा-नित्यः शब्दः, प्रमेयत्वादिति ॥
यस्याबाधितविषयत्वं नास्ति स कालात्ययापदिष्टः। यथाअनुष्णः, तेजोऽवयवी, कृतकत्वात्, घटवदिति ॥
यस्य निष्प्रतिपक्षता नास्ति स प्रकरणसमः। यथा-- अनित्यः, शब्दः, नित्यधर्मानुपलब्धेः, घटवत; नित्यः, शब्दः, अनित्यधर्मानुपलब्धेः, आकाशवदिति। सोऽयं एतेषु पञ्चसु लक्षणेष्वविनाभावो लिङ्गस्य परिसमाप्यते ॥
[अबाधितत्वस्य पृथक् हेतुलक्षणताऽऽक्षेपः] . ननु ! त्रिलक्षणके हेतावविनाभावः परिसमाप्यते। न च तथाविधे बाधा संभवति ; बाधाविनाभावयोर्विरोधात् ॥
साध्यविपर्यय इति। सपक्षः साध्यवान् - तत्र सत्त्वस्य विरुद्धसाध्याभाववत्येव सत्त्वमित्यर्थः। नैयत्यविवक्षणादनकान्तव्यावृत्तिः । अनेन हेतोः नियमेन साध्याभावव्याप्तेरेव सत्त्वेन सपक्षसत्त्वं नास्तीत्युक्तम् । अविनाभावः - व्याप्तिः। परिसमाप्यते--निर्णीयत इति यावत् । प्रकरणसमप्रभृतिशब्दान् तदवसरे निर्वक्ष्यामः ॥
'त्रिरूपाल्लिङ्गात् यदनुमेये ज्ञानं तदनुमानं ' (3-3), 'त्रैरूप्यं पुनर्लिगस्यानुमेये सत्त्वमेव, सपक्ष एव सत्त्वं, असपक्षे चासत्त्वमेव निश्चितम्' (3-5) इत्यादिना न्यायबिन्दौ धर्मकीर्युक्तं उपक्षिपति-नन्विति । विरोधादिति । बाधायां सत्यां त्रिलक्षणकत्वस्यैवासंभवादित्यर्थः ॥
स-क,
ख,