SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ 'आह्निकम् २ हेतो: पलक्षणत्वनिरूपणम् [लिङ्गशब्दनिर्वचनं, तस्य पञ्चलक्षणत्वं च ] तत्र परोक्षोऽर्थो लिङ्गयते-- गम्यतेऽनेनेति लिङ्गम् । तच्च पञ्चलक्षणम् । कानि पुनः पञ्चलक्षणानि ? पक्षधर्मत्वम्, सपक्षधर्म'त्वम् विपक्षाध्यावृत्तिः, अबाधितविषयत्वम् असत्प्रतिपक्षत्वं चेति ॥ सिषाधयिषित धर्मविशिष्ट धर्मी पक्षः, तद्धर्मत्वं तदाश्रितत्वमित्यर्थः ॥ साध्यधर्मयोगेन नितिं धर्म्यन्तरं सपक्षः, तत्रास्तित्वम् ॥ साध्यसंस्पर्शशून्यो धर्मी विपक्षः, ततो व्यावृत्तिः ॥ अनुमेयस्यार्थस्य प्रत्यक्षेणाऽऽगमेन वाऽनपहरणं अबाधित विषयत्वम् ॥ 283 संशय बीजभूतेनार्थेन प्रत्यनुमानतया प्रयुज्यमानेनानुपहतत्वसत्प्रतिपक्षत्वम् ॥ एतैः पञ्चभिर्लक्षणैरुपपन्नं लिङ्गं अनुमापकं भवति ॥ [हेतुदोषाः ] एतेषामेव लक्षणानां एकैकापायात् पञ्च हेत्वाभासा वक्ष्यन्ते ॥ पूर्ववदिति प्रमाणतायां सामप्रयाः ' इत्यादिना पूर्व (पु. 174 ) 'उपपादितदिशेत्यर्थः ॥ लिगि- गताविति धातुः । गत्यर्थाश्च ज्ञानार्थकाः ॥ . सिषाधयिषितो यो धर्मः -- वह्नयादि:, तद्विशिष्ट इत्यर्थः ॥ साध्यरूपधर्मवत्वेन निर्णीतमित्यर्थः ॥ अपहरणमिति । विषयापहारो हि बाधः ॥ प्रत्यनुमानतया प्रयुज्यमानेन संशयबीजभूतेनार्थेन - ( साध्यतदभावसाधारणत्वात्) अनुपहतस्वमित्यर्थः । तुल्यबल प्रत्यनुमानाभावः । अ 'संशय ' पदप्रयोगेन अबाधितत्ववैलक्षण्यम् ॥ 1 क्षे स-क. 2 वं- क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy