________________
282
अनुमान परीक्षोपक्रम
'अलमतिविस्तरेण परदर्शन गीतमतः विगतकलङ्कमस्ति न हि लक्षणमक्षधियः । तदलमक्षपादमुनिनैव निबद्धमिदं
हरति मनांसि लक्षणमुदारधियाम् ॥ १५० ॥ इति प्रत्यक्षम्
न्यायमञ्जरी
[ अथानुमानम् ]
तत्पूर्वकं च त्रिविधमनुमानं पूर्ववच्छेषवत्सामा
न्यतो दृष्टं च ॥ ५ ॥
एवं प्रमाण्ज्येष्ठेऽस्मिन् प्रत्यक्षे लक्षिते सति । कथ्यतेऽवसर प्राप्तमनुमानस्य लक्षणम् ॥ १५१ ॥ तत्रानुमानस्वरूपं ब्रूमहे । ततस्तत्र सूत्रं योजयिष्यामः ॥ पञ्चलक्षणका लिङ्गात् गृहीतान्निय' म' स्मृतेः । परोक्षे लिङ्गिनि ज्ञानं अनुमानं प्रचक्षते ॥ १५२ ॥
अत्रापि लिङ्गविषयं ज्ञानं ज्ञानविषयीकृतं वा लिङ्ग प्रतिबन्धस्मरणसहितं प्रमाणम् ; 'लिङ्गिज्ञानं फलम्, लिङ्गिज्ञानस्य वा प्रमाणतायां पूर्ववदुपादानादिज्ञानं फलमुपवर्णनीयम्;. करणस्य हि प्रमाणत्वमिति स्थितमेवैतत् ॥
इतरत् लक्षणप्रतिपादकं आवश्यकमेवेत्युच्यते, तर्हि लक्षणमतिव्याप्तमेव । अतः इन्द्रियजन्यत्वादिकं निवेशनीयमेव ॥
विषयशुद्धिमन्तरा पठ्यमानं वाक्यं विपरीतमध्यर्थं बोधयेदिति मत्वाऽऽह-तत्रेति । पञ्चति । पक्षसत्वादीनि पञ्चलिङ्गान्यनुपदमेव वक्ष्यन्ते । गृहीतादिति लिङ्गविशेषणम् । लिङ्गात् — लिङ्गज्ञाप्यायाः नियमस्मृतेरित्यर्थः । नियमस्मृतिसहकृतात् लिङ्गादिति वा । लिङ्गी -- अविनाभाव ( व्याप्ताख्य ) सम्बन्धेन लिङ्गविशिष्ट:-- साध्य इत्यर्थः ॥
•
अत्रापीति । प्रत्यक्षलक्षणे यथा, तथाऽत्रापि प्रमाणफले ज्ञेये ॥
1 मे - ख.
2 लिङ्ग-ख.