________________
आह्निकम् २] सांख्यसम्मतप्रत्यक्षलक्षणनिरास:
281 [सायाभिमतप्रत्यक्षलक्षणदूषणम् ] ईश्वरकृष्णस्तु 'प्रतिविषयाध्यवसायो दृष्टम्' इति प्रत्यक्षलक्षणमवोवत् । तदपि न मनोज्ञम्-अनुमानादिज्ञानानामपि विषयाध्यवसायस्वभावत्वेनातिव्याप्तेः॥ .
[युक्तिदीपिकाकार प्रदर्शितव्याख्यानासामञ्जस्यम् ] यत्त राजा व्याख्यानवान् .. 'प्रतिराभिमुख्ये वर्तते, तेनाभिः मुख्येन विषयाध्यवसाय: प्रत्यक्षम' इति । तदप्यनुमानादावस्त्येव । घटोऽयमितिवत् अग्निमान पर्वत इत्याभिमुख्येनैव प्रतीतेः। स्पष्टता 'तु सर्वसंविदा स्वविषये विद्यत एव ॥
[इन्द्रियसन्निकर्षजन्यत्वमन्तरा नान्यत् प्रत्यक्षलक्षणम् ] अथ मन्यसे ! सामान्य थिहितस्य विशेषेण बाधात् अनुमानादिव्यावृत्तिः सेत्स्यति । सामान्येनाध्यवसाय उत्सृष्टः, स लिङ्गशब्दाभ्यां विशेषितः इति तदितरोऽध्यवसायः प्रत्यक्षमिति स्थास्यति । यद्येवं प्रत्यक्षलक्षण मिदान मव्याकरणीयमेव। शब्द लिङ्गग्रहणे वर्णिते सति तद्वैलक्षण्यादेव प्रत्यक्ष ज्ञास्यत इति। तस्मादिन्द्रियार्थसन्निकर्षपदो. पादानमन्तरेण 'नानुमानादिव्यवच्छेद उपपद्यत इति इदमपि न प्रत्यक्षलक्षणमनवद्यम् ।।
विषयेति। अध्यव पायो हि निर्णयः। तद्रूपत्वं चानुमानादेरप्यस्तीत्यर्थः ।
प्रतिरिति। न झनुमानादिकं विषयमभिमुखीकृत्य प्रवर्तते, किन्तु परोक्षं विषयमधिकृत्येति भावः। आभिमुख्यनैवेति। ज्ञानस्याभिमुख्यं नामविषयीकरणमेव । तच्च सर्वत्र वर्तत एषति भावः॥ ... उत्सृष्टः-उत्सर्गप्राप्तः। तथा च---प्रत्यक्षलक्षणे 'दृष्ट' इति, अनुमानलक्षण ‘लिङ्ग' इति, शब्दलक्षा ‘शब्दः' इति च विशेष्यवाचकं पदम् । लिङ्गशब्दाभ्यां अनुमानशब्दयोः निर्देशात् दृष्टस्य प्रत्यक्षस्य वैलक्षण्यं सिद्धमेवेत्यर्थः । यदीत्यादि। दृष्टादिपदैव तद्व्यावृत्तिवर्णने तावदेव लक्षणमलं, प्रतिविषयेत्यादिविवरणमनपेक्षितमेव । यदि तेषां पदानां लक्ष्यमात्रपरत्वात्
1 अन-क.