________________
280
वैशेषिकसम्मत प्रत्यक्षलक्षणनिरामः
कारणभूतं वक्ष्यामः ।
धर्मविषयं वेदस्य चोदनैवेत्यवधारणार्थ सिद्धिः ॥
(न्यायमञ्जरी
तस्मिन्नपि सति न
[जैमिनिसूत्र निराकरणोपसंहारः)
तस्मात् 'न धर्मग्राहकं योगिप्रत्यक्षं विद्यमानोपलम्भनत्वात्, सत्संप्रयोगजत्वात् इत्यादिसाधनमप्रयोजकम् ॥
प्रमाणान्तरविज्ञातप्रमेयप्रतिपादकः । धर्मोपदेशकः शब्दः शब्दत्वात् घटशब्दवत् ॥ १४७ ॥ प्रत्यक्षः कस्यचिद्धर्मः प्रमेयत्वात् घटादिवत् । इत्यादयश्च सुलभाः सन्त्येव प्रतिहेतवः ॥ १४८ ॥
प्रतियुक्तिसाधितां योगबुद्धिम खिलार्थदर्शिनीम् । किं विमुच्यते सुधा दुष्टहेतुनिकुरुम्बराम्बरम् ॥ तदित्थमपि जैमिनीयं सूत्रमसङ्गतार्थम् । लक्षणपरत्वं त्वस्य. निरस्तमेव ॥
[वैशेषिकसम्मत प्रत्यक्षलक्षण निरासः ]
यदपि कैश्चित् प्रत्यक्षलक्षणमुक्त - 'आत्मेन्द्रियमनोऽर्थसन्नि कर्षादुत्पद्यते ज्ञानं तदन्यदनुमानादिभ्यः प्रत्यक्षम' इति -- तदपि यद्वयसन्निकर्षजन्मनां सुखात्मादिज्ञानानां अव्यापकं, अतिव्यापकं च व्यभिचार्यादिबोधानामित्युपेक्षणीयम् ॥
न स्यादित्यर्थः । ननु ईश्वरो नास्माभिरङ्गीक्रियत इति अनभ्युपगतदूषणमित्यत्राह - वक्ष्याम इति ॥
प्रमाणान्तरेत्यादि । 'अर्थ' बुढा शब्दरचना' नि खलु न्याय इति भावः । ननु तर्हि यदि शब्दः प्रमाणान्तरावगतमेवार्थं बोधयेत् तहिं तस्य स्मृतितौल्यमेवेति कथं तस्यातिरिक्तप्रमाणत्वमिति चेत् तदेतत् शब्दपरीक्षायां व्यक्तीभविष्यति ||
मपीत्यर्थः ॥
सूत्रमपि इत्यन्वयः । नास्य लक्षणपरत्वासंभवमात्रं, असंगतार्थकत्व
आत्मेत्यादि । आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, ततः प्रत्यक्षम् -- इति क्रमादित्याशयः । त्रयद्वयेति । अर्थसन्निकर्ष वर्जयित्वा त्रयं सुखप्रत्यक्षे, अर्थेन्द्रियद्वयं वर्जयित्वा द्वयं आत्मप्रत्यक्षे कारणम् । यभिचार्यादीत्यादिना संशयपरिग्रहः । तेषामपीन्द्रियजन्यत्वमुक्तमेव ॥