________________
आह्निकम् २]
मीमांमकमम्मलप्रयक्षलक्षणनिरामोपसंहारः
279
योगिनां सर्वज्ञत्येऽपीश्वराद्विशेषः] ननु ! एकेन ज्ञानेन सर्वानान् भूतभाविनः परोक्षानपि पश्यन्तो योगिनः कथमखिलत्रैलोक्यवृत्तान्तदर्शिनः सकलजगद्गुरोरीश्वराद्विशिष्येरन्। अस्ति विशेषः - ईश्वरस्य तथाविधं नित्यमेव शानं, योगिनां तु योगभावनाभ्यासप्रभवमिति ॥
अपूर्वमपि वस्तु भावनावशात् योगिप्रत्यक्षविषयः] . ननु ! नादृष्टपूर्वेऽर्थे क्वविद्भवति भावना ।
आगमात्तु परिच्छिन्ने धर्मे भावनयाऽपि किम् ?॥१४६॥
चोदनैव धर्म प्रमाणमिति सावधारणप्रतिज्ञार्थः, प्रथममागमादवगतधर्मस्वरूपेषु सत्स्वपि योगिषु न विप्लवत एवेति--उच्यतेयोगिष्वस्त्येवायं प्रकारः। पश्चादपि प्रवर्तमाने धर्मग्राहिणि प्रत्यक्षे चोदनैवेत्यवधारणं शिथिलीभवत्येव। अपि चेश्वरज्ञानं सांसिद्धिकमेव
विशिष्येरन् - मिचेरन् , विलक्षणा भवेयुः। अस्तीति। एवञ्च ईश्वरज्ञानं नित्यं, स्वाभाविकं च ; योगिज्ञानं तु अनित्यं, नैमित्तिकं चेति विशेष इति भावः ॥ · नन्वित्यादि। भावना नाम अनुभवजन्या स्मृतिहेतुश्च। एवञ्चातीन्द्रियवस्तुविषयकानुभवस्य पूर्वमसंभवेन कथं तद्भावना ? कथं वा ततो योगिनामपूर्ववस्तुप्रत्यक्षम् ? यदि च वेदादतीन्द्रियार्थज्ञानाधीना भावनेत्युच्यते, तर्हि धर्मादिः वेदादेव निर्णीतस्वरूप इति ततो भावनया किं प्रयोजनम् ? इत्यर्थः । न विप्लवत एवेति । एतादृशयोगिष्वङ्गीकृतेष्वपि चोदनैव धर्म प्रमाणमिति प्रतिज्ञाया नोपरोधः ! योगिभिर्हि प्रथमावगतये वेद एव शरणीकरणीयः संपन्न इत्यर्थः । शिथिलीभवत्येवेति । गृहीतग्राहित्वं न प्रामाण्यं व्याहन्तीत्युक्तं पूर्वमेव । एवञ्च वेदाधीनत्वेऽपि योगिप्रत्यक्षस्य धर्म प्रामाण्यं वर्तत एवेति चोदनैव प्रमाणमिति भवदवधारण व्याहतमेवेति । ननु प्रामाण्यमत्र स्वातन्त्र्येण विवक्षितम् । योगिनां धर्मप्रत्यक्षप्रामाण्यं तु वेदाधीनमेवेति न दोष इति शङ्कायामाह-अपि चेति । सांसिद्धिकमिति । तस्य नित्यसर्वज्ञत्वमन्यथा