________________
278
मीमांसकसम्म प्रत्यक्षलक्षणनिराम:
[न्यायमञ्जरी
न तावदेन न ह्येकस्मिन् ज्ञाने परस्परविरोधिनोऽर्थाः शीतोष्णवदवभासन्ते ॥
:
नापि बहुभि -- तानि हि क्रमेण वा भवेयुः ? युगपद्वा ? न युगपज्ज्ञानानि संभवन्ति सूक्ष्मान्तःकरणसापेक्षत्वात् । क्रमभावि भिस्तु ज्ञानैरशेष त्रिभुवन कुहर निहित निखिलपदार्थ सार्थ साक्षात्करणमेषां मन्वन्तरकोटिभिरपि दुर्घटमिति कथं सर्वज्ञा योगिनः ?
उच्यते युगपदेकयैव बुद्धया सर्वत्र सर्वानर्थान् द्रक्ष्यन्ति योगिनः । यत्तु विरुद्धत्वा दिति, तदप्रयोजकम् - विरुद्धानामपि नीलपी तादीनामेकत्र चित्र प्रत्ययेव भासनात् । एकत्र च मेचकप्रत्यये सन्निहितपदार्थव्यतिरिक्तसकलवस्त्वभाव' ग्रहणस्य पूर्व' (पु. 143) दर्शितत्वात् । शीतोष्णयोरपि क्वचिदवमरे भवति युगपदुपलंभः - तद्यथाप्रतपति हुतवहविस्फुलिङ्ग निकरानुकारिकिरणे तरुणोमणि ग्रीष्मे हिमशकल शिशिरपयसि सरसि निमग्नन भिन्नदेहस्य पुंसः युगपदेव सरस्सलिलसूर्यातपवर्तिनौ शीतोष्णस्पर्शावनुभवपथमवतरतः ।
नहीति । न हि नीलो घटः संभवतीत्यर्थः ॥
पी: पट इतिवत् नीलपीतो घट इति प्रतीतिः
सूक्ष्मेति । 'युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ' इति हि वक्ष्यत इत्यर्थः । क्रमेत्यादि । इदमुपलक्षणम् - अभ्युपगमे वा एतादृशं सर्वज्ञत्वं सर्वेषामपि संभवेदेव ॥
विरुद्धानामिति । वस्तुनोर्हि नीलपीतयोर्विरोधः, न तु ज्ञामेन साकं तयोः । समूहालम्बने अत्यन्तविरुद्धानामपि भानात् अन्यथा 'नीलपीत इति वक्तुमप्यसंभवात् । अतः ज्ञाने न कस्यापि विषयस्य विरोध इत्यप्यूह्यम् । युगपदिति । यद्यपि युगपत् ज्ञानद्वयं नाङ्गीक्रियत एव, अथापि अत्यन्त - विरुद्धत्वेन ज्ञायमानयोः शीतोष्णयोरुभयोरपि एकज्ञानविषयत्वं न केवलं शाब्दा दिघीमादायैवोपपादनीयं, ऐन्द्रियकानुभवमादायापति प्रतिपादनार्थमिदम् । शीतोष्णयोरुभयोरपि त्वगिन्द्रियग्राह्यत्वात् युगपदुभयविषयानुभवः संभवत्येव ॥
1 प्रत्यये - ख.
ग्रहणपूर्वस्य--ख.