________________
माह्निकम् २] प्रत्यक्षस्य कालत्रयविषयत्वसमर्थनम्
27 हि बदन्ति । आगमग्रहणं च निदर्शनार्थम्। अनुपायस्य ज्ञानस्य तेषामसत्त्वात् ॥
[सिद्धदर्शनमपि न प्रतिभा न च सिद्धदर्शनं प्रतिभा; अस्मदादेरपि भावात् । तस्मान्न प्रमाणान्तरं प्रातिभम् , अपि तु प्रत्यक्षमेव ।।
[प्रत्यक्षमपि कालत्रयविषयकमरत्येव] ननु ! प्रत्यक्षमपि नेदं भवति । तद्धि वर्तमानकविषयम् । यथोक्तम्-(श्लो. वा. 1-1-4-84)
'संबद्धं वर्तमानं च गृह्यते चक्षुरादिना' इति । ___ तथा –'एष प्रत्यक्षधर्मश्च वर्तमानार्थ तैव यत्' इति च। मैवम्अनागतग्राहिणः प्रत्यक्षस्य प्रदेशान्तरे स्वयमेवोक्तत्वात् ॥
'रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते ' ' इति च' भवानेवावोचत् । तस्मात् प्रत्यक्षमनागतग्राहि 'श्वो मे भ्राताऽऽगन्ता' इति सिद्धम् ॥
एवञ्चास्मदादीनामिवानागते भ्रातरि, योगिनां भविष्यति धर्मे प्रत्यक्षं प्रवत्स्य॑तीति । तस्मात् यत् सर्वशनिषधाय कथ्यते
'यजातीयैः प्रमाणैस्तु यजातीयार्थदर्शनम् । . भवेदिदानी लोकस्य तथा कालान्तरेऽप्यभूत् ॥' (श्लो. वा 1-1-3-113) इति तदपास्तं भवति ॥
योगिनां सर्वज्ञत्वसंभवाक्षेपपरिहारौ] तत्रैतत्स्यात्-सर्वज्ञता योगिनां किमेकेन ज्ञानेन ? बहुभिर्वा ?
कथ्यत इति । रूपग्राहकजातीयैः चक्षुरादिभि: यजातीयस्य वस्तुन इदानीं ग्रहणं कालान्तरेऽपि तत्तथैव स्यात। प्रमाणस्वभावः सर्वकरूप एव इति वार्तिकार्थः। अतश्चातीन्द्रियार्थदर्शनं योगिनामपि न स्यादिति भावः ।।
तत्र- सर्वज्ञसिद्धौ। एतत्--आक्षेपजालम् । यद्यपीति शेषः ।