________________
276
मीमांसकसम्मतप्रत्यक्षलक्षणनिरामः
न्यायमञ्जरी
वस्तुनो मनो 'ग्राहक मिति नान्धाद्यभाव इत्युक्तम् । शब्दाद्यपायान्तरविरतौ च जायमानमनवा ज्ञानं मानसं प्रत्यक्षं भवति । सुरभि केतककुसुमम् , मधुरा शर्करेति ज्ञानवदित्यप्युक्तम् । अत एव नानियतनिमित्तकं ज्ञानं प्रतिभेति वक्तव्यम्। प्रत्यक्षनिमित्तत्वात् ॥
[भाषज्ञानमन्यत, अन्या च प्रतिभा] न चार्ष नाम ज्ञानं प्रतिभा ; प्रत्यक्षातिरिक्तस्यार्पनाम्नः प्रत्ययस्याभावात् । 'ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम्' इति किन्तु पूर्वावगतिजसंस्कारसचिवं सत् वस्तूपस्थापयतीति नोक्तदोष इत्यर्थः । प्रातिभस्य प्रामाण्ये सिद्धे, इतरानन्तर्भावाञ्च तस्य प्रत्यक्षत्वं स्वतस्सिदमेवेति। । प्रत्यक्षनिमित्तत्वादिति बहुव्रीहिः ॥
'आर्ष सिद्धदर्शनं च धर्मेभ्यः' (क. सू..9-2) इति माहर्षसूत्रम् । अत्र प्रशस्तपादाचार्याः ‘आम्नायविधा तृणांमृषीणां अंतीतानागतवर्तमानेध्वतीन्द्रियेष्वर्थेषु धर्मादिषु ग्रन्थोपनिबद्धे ग्वनुपनिबद्धेषु चात्ममनसोस्संयोगात् धर्मविशेषाञ्च यत् प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्यते तदार्षमित्याचक्षते । तत्तु प्रस्तारेण देवर्षीणां, कदाचिदेव लौकिकानां- यथा कन्यका ब्रवीति-- 'श्वो मे भ्राताऽगन्तेति हृदयं मे कथयति' इति, इति । अत्र ‘सिद्धदर्शनं न ज्ञानान्तरं' इत्यादिना सिद्धदर्शन प्रत्यक्षानुमानान्यतरान्तर्भतमेवेति वदतां प्रशस्तपादानां आर्ष अतिरिक्तं प्रमाणमिति सम्मत मिव भाति । न्यायकन्दल्यां श्रीधराचार्याश्च अन 'तत् प्रत्यक्षार्षयोरन्यतरस्मिन्नन्तर्भूतं ' इति वदन्त इममर्थ द्रढयन्ति । तदेतन्निराकरोति-न चेत्यादि । अयं भावः ‘आर्ष सिद्धदर्शन च धर्मेभ्यः' इत्यत्राएं ज्ञानं प्रातिभमिति यदुक्तं तदिष्टमेव । परन्तु न तदतिरिक्त प्रमाणम् । एकसूत्रनिर्दिष्टयोः चकारेण समुञ्चितयोरुभयोर्मध्य एकस्यातिरिक्तत्वेऽन्यस्यानतिारेक्तत्वे च न सौत्रं विनिगमकं पश्यामः। अतस्सर्वोऽप्ययं प्रत्यक्षविशेष एवेति । ऋषीणाम पीति । तथा च आर्षज्ञानस्य शब्दाद्यधीनत्वेऽपि शाब्दत्वं तु न संभवत्यवेति अन्ततः तत् मानसप्रत्यक्षरूपमेव वक्तव्यम् । अतश्च आर्ष प्रातिभं च प्रत्यक्षप्रभेद इत्यर्थः ॥
नग्राहक-क.
'शानं-ख.