________________
आह्निकम् २]
प्रतिभाया प्रत्यक्षत्वोपपादनम्
275
ननु ! भावितया ग्रहणमघटमानम् । भावित्वं हि नाम सावधिः प्रागभावः । ' अभावस्य च भावेन' भ्रात्रा सह कः सम्बन्धः ? वस्त्ववस्तुनोर्विरोधात् तदेतदसम्यक् तद्देशसम्बन्धस्य तत्र प्रागभावः, न तु धर्मिणः । स हि विद्यत एव प्राग'वगतः। स च कुतश्चित् भोजनोत्कण्ठादेः कारणात् स्मरणपदवीमुपारूढः श्वस्तनागमनविशिष्टत्वेन प्रतिभातीति प्रातिभस्य स एव जनक इति । · तस्मादनर्थजत्वाभावात् प्रमाणं प्रातिभम् । प्रमाणं च सत् प्रत्यक्षमेव, न प्रमाणान्तरम् ; शब्दलिङ्गसारूप्यनिमित्तानपेक्षत्वात् ॥
[प्रातिभं प्रत्यक्षमेव ]
- मनस
ननु ! प्रत्यक्षमपि मा भूत, इन्द्रियानपेक्षत्वात्मैवम् - एव तंत्रन्द्रियत्वात् । पूर्वोत्पन्नवाक्षुष विज्ञानविशेषणस्य बाह्यस्य
अघटमानं भवतीति शेषः । अयं भावः - प्रागभावः खलु भविष्यतीति प्रतीतिगम्यः । एवं च भ्रातुर्भविष्यत्त्वेन ग्रहणे भ्रातृप्रागभाव एव सिध्यति । तथा च भ्राता तदानीं नास्तीत्यनर्थजत्वं सिद्धं प्रातिभस्येति । सावधिः ज्ञातोत्तरावधिरिति यावत् । कस्सम्बन्ध इति । प्रतियोगित्वं तु नात्र वक्तुं शक्यम्, अभावग्रहणकाले प्रतियोगिनस्सत्त्वाऽसंभवेन विवक्षितार्थासिद्धेः । प्रतियोगिताऽन्वये हि प्रत्यक्षा प्रागभावप्रतीतिः, न तु प्रातिभं तत् । विशेषणविशेष्यभावेन खल्वत्रोपस्थितिरावश्यकी । तदा चोभयोरपि सत्त्वमावश्यकम् । तच्च न वटत एव प्रतियोगितयाऽन्वये । प्राक् पूर्वकाले । अयमर्थ:- न ह्यत्र भ्राता भविष्यति इति प्रतीतिः, किन्तु आगमिष्यति इति - भ्रातुरागमनं भविष्यतीत्यर्थः । एवञ्च नायं भ्रातृप्रागभावः, किन्तु भ्रात्रागमनप्रागभावः । तथा च एतद्देशसम्बन्धप्रागभावविशिष्टस्य भ्रातुरेव ग्रहणात्, विशेषणविशेष्ययोश्च तदानीं सत्वान्नानर्थजं प्रातिभमिति ॥
अन्यथा
इन्द्रियेति । बाह्येन्द्रियेत्यर्थः । विशेषणविशेष्ययोस्त्वेऽपि न हि चक्षुरुसन्निकर्षो वर्तत इत्यर्थः । ननु मनः बाह्यविषये न स्वतन्त्रम् । अन्धोऽपि रूपं गृह्णीयादित्यत्राह पूर्वेति । न हि मनः अपूर्वं बाह्य गृह्णाति,
! अभावेन-क.
2
प्राक.
;
भाव-ख.
18*