________________
274
मीमांसकसम्मत प्रत्यक्षलक्षणनिरास:
[न्यायमञ्जरी
[अस्त्येवास्मदादीनामपि भविष्यद्विषयं प्रातिभं ज्ञानम् ) अपि चाना'गत'ज्ञानमस्मदादेरपि क्वचित् । प्रमाणं प्रातिभं, वो मे भ्राताऽऽगन्तेति दृश्यते ॥ १४२ ॥ नानर्थजं, न सन्दिग्धं, न बाधविधुरीकृतम् । न दुष्टकारणं चेति प्रमाणमिदमिष्यताम् ॥ १४३ ॥ कचिद्वाधक योगश्चेत् अस्तु तस्याप्रमाणता । यत्रापरेद्युरभ्येति भ्राता तत्र किमुच्यताम् ॥ १४४ ॥ काकतालीयमिति चेत्, न प्रमाणप्रदर्शितम् । वस्तु तत्काकतालीयमिति शङ्कितुमर्हति ॥ १४५ ॥
[प्रातिभं ज्ञानं प्रमाणमेत्र ]
ननु ! अनर्थ जमिदं ज्ञानं भ्रातुस्तजनकम्य तदानीमसत्वात् । स्यादेतदेवं - यदि तदाऽस्तित्वेन भ्रातरं गृह्णीयात् । किन्तु भवन'नं गृह्णाति । भावित्वं च तदाऽस्यास्त्येवेति कथमनर्थजं तज्ज्ञानम् ॥
प्रशस्तपादभाष्यादिषूक्तं कालत्रयविषयकं प्रातिभं ज्ञानं प्रमाणभूतमिति, तदेतदाह-अपि चेति । तत्तु प्रस्तारेण देवर्षीणां कदाचिदेव लौकिकानां ' इति भाष्यात् क्वचिदित्युक्तिः । अनर्थजं - अर्थाजन्यम् । बाधेत्यादि । बाधज्ञानापहृत विषयकमिति यावत् । एवमपि यस्मिन् शुक्तिरजतज्ञाने कारणान्तरवशात् बाघ एव नोपन्नः तत्तौवं कुतो न स्यादित्यत: -- न दुष्टेत्यादि । प्रातिभानुविधायिभ्रात्रागमनादिरूपं वस्तु प्रमाणप्रदर्शितमपि काकतालीयमिति शङ्कमपि नार्हतीत्यन्वयः । एवं सति सर्वेषामपि प्रमाणानां एवं शङ्कितुमर्हत्वात् शून्यवाद एव परिशिष्येतेत्यर्थः ॥
तज्जनकस्य -- प्रातिभज्ञानजनकस्य । तथा च भ्रान्तिरूपमेवेदं प्रातिभं ज्ञानमिति भाव: । यदीत्यादि । अन्यथा भूतवस्तुविषयकानुमानमपि तदानीमनर्थजन्यमेव स्यात्, एवं शब्दोऽपीति । अतश्च प्रातिभमर्थजन्यमेवेति न दोषः ॥
1 गतं - ख.
३ तये-क.
2 यं भवि - क, यमिति भवि - ख.
क्ष-क.
न्त-क.