________________
272
मीमांसकसम्मतप्रत्यक्षलक्षणनिरास:
न्यायम जरी
[भावनावल जप्रत्यक्ष धर्मप्रत्यक्षे दृष्टान्तो भवत्येव] ननु ! एतेषां मिथ्याज्ञानन्वात् न योगिविज्ञाने दृष्टान्तत्वं युक्तम्-न-'स्फुटावभासमात्र तया दृष्टान्तत्वोपपत्तेः। न हि शब्दघटयोरपि सर्वात्मनाऽतुल्यत्वम्। तत्र कामशोकादिभावनाभ्यासभुवां प्रतिभासानां बाधकवैधुर्यादप्रामाण्यं भविष्यति, नेतरेषाम, तदभावात् । 'स्फुटाभासत्व तूभयत्रापि तुल्यम् ॥
[पत्यक्षस्यातिश. अतीन्द्रियार्थविषयत्वरूपो युक्त एव] ननु ! अभ्यासोऽपि' क्रियमाणो नात्यन्तमपूर्वमतिशयमावहति, . लङ्घनाभ्यासवत् । 'योऽपि हि' प्रतिदिनमनन्यकर्मा लङ्घनमभ्यस्यति सोऽपि कतिपयपदपरिमितमवनितलमभिल वयति; न तु पर्वत मम्बुधिं वेति-उच्यते
लङ्घनं देह धर्मत्वात् कफजाड्यादिसंभवात् । मा गात् प्रकर्ष, ज्ञाने तु तस्य का प्रतिबन्धकः १३१ ॥ लङ्घनादौ तु पूर्वेयुः प्रयत्नसमुपार्जितः । न देहेऽतिशयः कश्चिदन्येद्यरवतिष्ठते ॥ १३२ ॥ तत्र केवलमभ्यासात् प्रक्षये कफमेदसोः । शरीरलाघवं लब्ध्वा लयन्ति यथोचितम् ॥ १३३॥
एतेषां कामशोकादिपीडितपुरुषदर्शनानाम् । ननु परस्परमत्यन्तविलक्षणयोर्यत्किञ्चित्माम्यमात्रेण यदि दृष्टान्तत्वं, तर्हि शब्दघटयोरपि यत्किञ्चिदंशे दृष्टान्तत्वप्रसङ्ग इति शङ्कामिष्टापत्त्या परिहरति-न हीति । यथा घटः भनित्यः तथा शब्दोऽप्यनित्य इति प्रतीतिस्संभवत्येवेत्यर्थः । बाधकवैधुर्यात्-- बाधकप्रत्ययापहृतविषयत्वात् ॥
तस्य -- प्रकर्षस्य । ज्ञानस्य महिमा तु निरवधिरित्यर्थः ॥
लङ्घनाभ्यामस्य दृष्टान्तत्व पेव न संभवनीत्याह -- लङ्घनादाविति । अयं भावः । लङ्घनाभ्यासेन खलु शरीरे नातिरिक्तः अतिशय उत्पाद्यते। किन्तु
1 स्फुटामामात्र-क. 2 स्फुटाभत्व-क. 3 अभ्यास:-क. 4 यो हि-क.