________________
आह्निकम् २ ]
धर्मादीनां योगिप्रत्यक्षविषयत्वसमर्थनम्
सत्यं साहसमेत मम वा चर्मचक्षुषः । न त्वेष दुर्गमः पन्था योगिनां सर्वदर्शिनाम् ॥ १२८ ॥
[त्रिकालानवच्छिन्नोऽपि धर्मः प्रत्यक्ष एव ]
• यच्च त्रिकालानवच्छिन्नो यजेतेत्यादिलिङादियुक्तशब्देकशरणागमो धर्मः कथं ततोऽन्येन प्रमाणेन परिच्छिद्यतामित्युच्यतेतदपि प्रक्रियामात्रम् । किमिव हि त्रिकालस्पर्शास्पर्शाभ्यां कृत्यम् ? यथा वयं गमनादिक्रिया'णां' देशान्तरप्राप्त्यादिप्रयोजनतां जानीमः - तथा अग्निहोत्रादिक्रियाणां स्वर्गादिफलतां ज्ञास्यन्ति योगिन इति किमत्र साहसम् ?
[ अन्तत: धर्मादयो मनसा वा गृह्यन्त एव भावनाबलजप्रत्यक्षवत् ] यदि हि बाह्येन्द्रियेष्वमर्षः, न तेष्वतिशयो विषह्यते, तदलमनुबन्धेन ॥
' मनःकरणकं ज्ञानं भावनाभ्याससंभवम् ।
भवति ध्यायतां धर्मे कान्तादाविव कामिनाम् ॥ १२९ ॥
न हि सर्वविषयं न तस्याविषयः कश्चिदस्ति । अभ्यासवशाच्चातीन्द्रियेष्वप्यर्थेषु परिस्फुटाः प्रतिभासाः प्रादुर्भवन्तो दृश्यन्ते । यथा' ss: (प्र. वा. 3-282).
कोशः ॥
'कामशोकामयोन्मादचोरस्वमा' युपद्रुताः ' अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥
शरणं - उपायः । ततः - शब्दात् । यद्यपि अत्र त्रिकालानवच्छिन्नत्वमात्रं न धर्मस्य शब्दै गम्यत्वे हेतु:, अनुमानस्यापि कालत्रयविषयत्वात् किन्तु
. प्रत्यक्षागम्यत्व एव । अथापि सर्वथाऽप्रत्यक्षे नानुमानमपि प्रवर्तेतेत्याशयः । प्रक्रिया --- उपपादनप्रकारः ||
अनुबन्ध: - दोषोत्पादनम् |
271
'यां- क.
2 मनो हि - क.
,
'दोषोत्पादेऽनुबन्ध: स्यात्
4
इति
3
यदा - क. 'द्युपप्लुता - इति प्रमाणवार्तिकपाठः ।