________________
270
मीमांसकसम्मतप्रत्यक्षलक्षणनिरासः न्यायमञ्जरी नैतदेवम् - रसादिग्राहीण्यपि योगिनामिन्द्रियाणि चक्षुर्वदतिशयवन्त्येवेति न रसादिपु चक्षुर्व्यापारः परिकल्प्यते । धर्मेऽपि न तर्हि' कल्पनीय इति चेत्-न-तस्य रसादिवत् तदविषयत्वाभावात् ॥
अपि च योगीन्द्रियाविषयत्वं धर्मस्य कथमवगतवान् भवान् ? अविषयत्वं तद्भावेऽपि तदनवगमादवगम्यते-यथा नयनसद्भा: वेऽपि शब्दाश्रवणात् तदविषयता शब्दस्यावसीयते-न चैवं योगिचक्षुषि सत्यपि धर्मस्याग्रहणं अवगन्तुं शक्नोति भवान् , उभयस्यापि भवतः परोक्षत्वात् इत्य विषयस्स 'तस्येति न ते वक्तुं युक्त मिति ॥
[धर्मः योगिप्रत्यक्षविषय एव] ननु ! कर्तव्यतारूपः त्रिकालस्पर्शवर्जितः ।
चक्षुर्विषयतामेति धर्म इत्यतिसाहसम् ॥ १२७ ॥ नैतदिति। अयं भाव:--चक्षुषैव रसादिग्रहणापादनं, योगिनां रसनेन्द्रियादीनामभावादुच्यते ? उत सतामपि तादृशशक्त्यभावात् । नांद्य:, इन्द्रियाणां सद्भावात् । अन्त्ये किं रसादिग्रहणशक्तिः पूर्व विद्यमाना योगिनां नष्टा ? उतातीन्द्रियरसादिग्रहणशक्तिर्नास्तीति ? प्रथमे अस्मादृशामयोगिनामिन्द्रियस्य विद्यमानं सामर्थ्यमपि योगिनामिन्द्रियस्य नास्तीति चित्रमिदम् । द्वितीये चक्षुर्वदेव रसनादिकमपि योगप्रभावादतीन्द्रियरसादिग्रहणशक्तं वर्तत एवेति किं चक्षुष उपरि भारारोपगेनेति । तीति । यथा लोके रसस्य चक्षुषा कुत्राप्यग्रहणात् योगिचक्षुषोऽपि तत्रासामर्थ्य कल्पना, तथैव धर्मस्य कुत्रापि चाक्षुषत्वादर्शनात् धर्मेऽपि असामर्थ्यकल्पनमेव न्याय्यमित्यर्थः । समाधत्ते--तस्येति । तविषयत्वेति । चक्षुरविषयत्वस्यासिद्धेरिनि भावः॥
ननु चक्षुर्विषयत्वं वा कथं सिद्धमित्याशङ्कायां बाधकामावादेव सिद्धमित्याह-अपि चेति । उभयस्य ----योगिचक्षुषः धर्मस्य च ॥
त्रिकालेति। तथाक्तं (श्लो.वा. 1-1-2-1:3) 'श्रेयस्साधनता ह्येषां नित्य वेदात् प्रतीयते। तादृप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः' इति ॥
1 पि तर्हि-क.
यता शब्दस्या-ख.
इति-ख. "तस्य नेति नैव-ख.