________________
आह्निकम् २]
या गिप्रत्यक्षसमर्थनम्
[दयोsपि योगिप्रत्यक्ष विषयाः ]
ननु ! स्वविषयानतिक्रमेण भवतु तदतिशयकल्पना । धर्मस्तु चक्षुषो न विषय एव । तदुक्तम्- (लो. वा-1-1-2-114) 'यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् । दूर सूक्ष्मादिदृष्टौ स्यात् न रूपे श्रोत्रवृत्तिता ॥
अपि च- ' येऽपि चातिशया दृष्टाः प्रज्ञामेधाबलै' नृणाम्' | स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ' ॥ इति ।
एतदयुक्तम्-यतः, यद्यपि नास्मदादिनयनविषयो धर्मः --- तथापि योगीन्द्रियगम्यो भविष्यति । तथा हि-योजनशतव्यवहितं, अन्धकारान्तरितं वा नास्मदादिलोचनगोचरतामुपयाति, संपातिपृषदंशदृशोस्तु विषयो भवत्येव ॥
[ चक्षुषैव योगिनां धर्मग्रहणम् ]
नन्वेवमविषये प्रवृत्तं योगिनां चक्षुर्गन्धरसादीनपि गृह्णीयात् । यथोक्तम्- (. वा. 1-1-2-112)
'एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते ।
नूनं 'स' चक्षुषा सर्वान् रसादीन् प्रतिपद्यंत ' इति ॥
स्वं तत्तदिन्द्रियाणि । श्रोत्रवृत्तिता - श्रोत्रस्य वृत्तिः - यस्मिन् तत् श्रोत्रवृत्ति, तस्य भावः । यद्विषयकप्रवृत्तिमत् श्रोत्रं तत्तेत्यर्थः । श्रोत्रग्राह्यतेति यावत् ॥
269
स्तोकस्तोकान्तरत्वेनेति । एकापेक्षयाऽन्यस्य पुरुषस्येन्द्रियाणां सन्नप्यतिशयः किञ्चित्किञ्चिदन्तरवानेव स्यात्, न तु अतीन्द्रियार्थग्रहणरूपादतियो महदन्तरो दृष्ट इत्यर्थः । व्यवहितं इत्यस्य 'वस्तु' इति विशेष्यम्, एवमुत्तरत्रापि ॥
1 नरा:-क.
----!
प्रमाणेन—प्रमाकरणेनेन्द्रियेणेति यावत् । चक्षुषैव यदि सर्वं जानीयात् तर्हि रसादिग्राहकत्वमपि चक्षुष एव स्यादिति इन्द्रियव्यवस्थैव न स्यादिति ॥
2 जैव-क.
७ च - ख.