________________
268 मीमांमकसम्मतप्रत्यक्षलक्षणनिराम:
न्यायमञ्जरी योगिप्रत्यक्षे प्रमाणम्] ___ आह-शिक्षिताः स्मः प्रामाणिकवृत्तम्। न दूषणं ब्रूमः। भवन्तमेवानुयुज्महे ; तदेतर्हि कथ्यताम्-धर्माधिगमनिपुणयोगिप्रत्यक्षसिद्धौ किं प्रमाणमिति-इदमुच्यते-दर्शनातिशय एव प्रमाणम् । तथा ह्यस्मदादिरपेक्षितालोकोऽवलोकयति निकटस्थितमर्थवृन्दम् । । उन्दुरु'वैरिणस्तु सान्द्रतमतमःपङ्कपटल विलिप्तदेशपतितमपि संपश्यन्ति। संपातिनामा च गृध्रराजो योजनशतव्यवहितामपि दशरथनन्दनसुन्दरीं ददर्शेति श्रूयते रामायणे। सोऽयं दर्शनातिशयः शुक्लादिगुणातिशय इव तारतम्यसमन्वित इति 'गम यति परमपि निरतिशयमतिशयम् । अतश्च यत्रास्य परः प्रकर्षः, ते योगिनो. गीयन्ते । दर्शनस्य च परोऽतिशयः सूक्ष्मव्यवहितविप्रकृष्टभूत.. भविष्यदादिविषयत्वम् ।
स्वयमज्ञश्चत् परोक्तमेव शरणीकर्तव्यमित्युक्तो वादी सावहेलनमधिक्षिपति --शिक्षिताः स्म इत्यादिना। अपेक्षितालोकः-आलोकरूपसहकारिविशिष्टः अस्मदादिरित्यर्थः। उन्दुरुवैरिणः--मार्जाराः। तत्सुरवैरिण इति पाठे -राक्षसाः-इत्यर्थः । निशाचरा हि ते। , परं-सर्वापेक्षया अन्तिमसीमवर्तिनम् । नन्वस्तु तथा । तथाऽपि सर्वदर्शित्वं कथं सिद्धमित्यत्राह-दर्शनस्येति । एतदुक्तं भवति । लोके कश्चिदेकं पश्यति, अन्यस्ततोऽधिकं, अपरश्च ततोऽप्यधिकमिति दर्शनं लोके तरतमभावापन्न दृष्टम् । तस्य च तारतम्यस्य कुत्रचिद्विश्रान्तिर्वाच्या। कतिपयदर्शित्वं तु सर्वसमानम् । अतः तादृशोऽतिशयो निरतिशयो न स्यात् । आपेक्षिककतिपयदर्शित्वप्रतिकोटि तु सर्वदर्शिस्वमेव । तत्र यदि सर्वशब्दे संकोचोऽङ्गीक्रियते तर्हि पुनस्सैव गतिः। अतः देशतः कालत: स्वरूपतश्च संकोचरहितसर्वदर्शित्वमेव वक्तव्यमिति सिद्धं सूक्ष्मत्रिकालवर्तिसर्वदर्शित्वं केषाञ्चिदिति ॥
1 तत्सुर-क.
कथ-क.