________________
आह्निकम् २]
जैमिन्युक्तप्रत्यक्षलक्षणनिरास:
267
मत्प्रत्यक्षमक्षमं धर्मग्रहण इति भवान्न जानीते, त्वत्प्रत्यक्षमपि न धर्मग्राहीति नाहं जाने, अन्यस्य प्रत्यक्षमीदृशमेवेति उभावण्यावां न जानीवहे ॥
त्वया तु यदि सर्वेषां प्रत्यक्षं ज्ञातमीदृशम् । तर्हि त्वमेव योगीति योगिनो द्वेक्षि किं वृथा ? ॥ १२३ ॥ प्रामाणिकस्थितिं तस्मादित्थं श्रोत्रिय ! बुध्य से ! परोक्तेऽतीन्द्रिये ह्यथै मा वादीर्दूषणं पुनः ।। १२४ ॥ प्रमाण सिद्ध हतशक्ति दूषणं
प्रमाणशून्येऽपि वृथा तदुक्तयः । निरस्य चोद्यव्यसनं तु मृग्यतां
अतीन्द्रिये वस्तुनि साधनं पुनः ॥ १२५ ॥ स चेत् पर्यनुयुक्तः सन् वक्तुं शक्नोति साधनम्।
ओमिति प्रतिपत्तव्यं नो चेन्नास्त्येव तस्य तत् ॥ १२६॥ उक्तमेव विवृणोति-मत्प्रत्यक्षेति । उभाविति । स्वप्रत्यक्षस्य धर्मग्रहणासामर्थ्यात् तद्दृष्टान्तेन इतरेषामपि प्रत्यक्ष तादृशमेवेत्यनुमिनुमः-इति चेत् स्वेनावगतमेवान्येनाप्यवगम्येतेति वा, स्वेनानवगतमन्यस्याप्यनवगतमेवेति वा न वक्तं शक्यमिति ग्रन्थकृदेव सप्तमाह्निके क्षणभङ्गे वक्ष्यति । यथा—' यदहं न वेद्मि तत् परोऽपि न वेदेति चेत्' इत्यादिना । वुध्यसे इति । अवगच्छेति यावत् ॥ . सर्वेषां प्रत्यक्ष ईदृशमिति त्वया यदि ज्ञातं इत्यन्वयः ॥ . प्रमाणसिद्धेऽर्थे दूषणमकिञ्चित्कर, प्रमाणशून्येऽपि तथेत्यर्थः । अयं भावः-- अतीन्द्रियं तु वस्तु भवतामपि सम्मतम्। तत्र च प्रमाणं केवलं मृग्यम्। न रवन्येनोक्ते प्रमाणे केवलदूषणकथनं युक्तम् । शब्दोऽपि हि लोकावगतसामर्थ्यः अत्यन्तलोकविलक्षणेऽतीन्द्रिये वस्तुनि कथं प्रमाण स्यादिति ॥
सचेदिति। अतीन्द्रियसाधकं प्रमाणमवगन्तुमशक्तेन त्वया पृष्टः सःयः कश्चित् तत्साधनं वक्ति चेत्, सूष्णीमभ्युपगम्य सन्तोष्टव्यमायुष्मता। यदि नांगीकरोषि तर्हि अतीन्द्रियसाधनं न शक्यमेव ॥