________________
266
मीमांसकसम्मतप्रत्यक्षलक्षणनिरास:
न्यायमरी
साध्यसिद्धिर्यथा नास्ति परसिद्धन हेतुना। तथैव धर्मिसिद्धत्व परसिद्धया न युज्यते ॥ १२०॥
[सूत्रस्य तर्करूपत्वोपपादनं, तन्निराकरणञ्च तत्रैतत्स्यात्-प्रसङ्गसाधन मिदम् । प्रसङ्गश्च नाम परसिद्धन परस्यानिष्टापादनमुच्यते। परस्य च विद्यमानोपलंभनं सत्संप्रयोगजन्यं च प्रत्यक्षं सिद्धम् । अतस्तेनैव हेतुना धर्मानिमित्तत्वं तस्योपपाद्यत इति को दोषः?-नैतदेवम्
प्रसङ्गसाधनं नाम नास्त्येव परमार्थतः । तद्धि कुड्यं विना तत्र चित्रकर्मेव लक्ष्यते ॥ १२१ ॥ न हि नभःकुसुमस्य सौरभासौरभविचारो युक्तः ॥ .
अथापि 'किं न एतेन'! भवत्वेवं प्रसङ्ग साधनम् । तदपि तु . व्याप्तिमूलं भवति ॥
न च संभवति' व्याप्तिप्रतीतिरिह मादृशाम् । .. न धर्मग्राहि सर्वेषां प्रत्यक्षमिति वेत्ति कः? । १२२ ।।
प्रत्ययत्वात् , इत्यनुमाने पक्षत्वेन लोकप्रसिद्धः प्रत्यय एव विवक्षित इति कथनेऽपि अन्यस्य ग्राहकात् ज्ञानात भिन्नस्य वस्तुनः. ग्राहकं आत्मधर्मभूतं वस्त्वेव प्रत्ययशब्दार्थ इति अस्माकं प्रसिद्धम्। तस्यैव पक्षीकरणे च अभ्युपगमविरोध:--अस्माभिः अर्थग्राहकत्वेन प्रमाणत्वेन चाभिमत प्रत्यय पक्षत्वेनांगीकृत्य पुनस्तस्य अर्थाविषयस्वादप्रामाण्यसाधनं व्याहतमिति । एवञ्च परपक्षसिद्धस्य पक्षीकरणं न युज्यत इति भवद्भिरेव कथितमिति प्रकृते परमतसिद्धस्य योगिप्रत्यक्षस्य पक्षीकरणं न युक्तम् । धर्मी-पक्ष: ।।
प्रसङ्गेत्यादि। कन्दल्यामप्ययं पक्षः प्रस्तुत्य निरस्तः ।।
मादृशां-असर्वज्ञानाम् । प्रत्यक्षं हि ज्ञानं तत्तदात्ममात्रसाक्षिकम । एवं स्थिते सर्वेषामपि प्रत्यक्षं न धर्मग्राहीति को वा वेत्ति ? यदि कश्चित् वेत्ति तर्डि स एव सर्वज्ञः योगिपदवाच्यः संजातः। सर्वशेन च तेन धर्मोऽपि तथैव गृह्येत ॥
। किं तेन-क.
विदं-ख,
साधनम्-ख. 4 तदत्रापि न तु--ख.