________________
युक्त प्रत्यक्षलक्षण निरास:
एवं च धर्मिणोऽभावादाश्रयासिद्धतां स्पृशेत् । विद्यमानोपलभत्वप्रत्यक्षत्वादिसाधनम् ॥ ११७ ॥
आह्निकम् २ ]
परप्रसिद्धा तत्सिद्धिरिति चेत्-केयं प्रसिद्धिर्नाम ? प्रमाणमूला ? तद्विपरीता वा? आधे पक्षे प्रमाणस्यापक्षपातित्वात् परस्येव तवापि सिद्धिर्भवतु । अप्रमाणमूलत्वे तुन कस्यचिदप्यसौ प्रसिद्धिः ॥
योगज्ञानं परेषां यत् सिद्धं तदनुभाषणे ।
. प्रतिज्ञापदयोरेव व्याघातस्ते प्रसज्यते ॥ ११८ ॥
परैर्हि धर्मग्राहि योगिज्ञानमभ्युपगतम् । अतस्तदनुभाषणे
धर्मग्राहकं न धर्मग्राहकमित्युक्तं स्यात् ॥
परसंसिद्धमूलं च नानुमानं प्रकल्पते ।
उक्तं भवद्भिरेवेदं निरालम्बन' दूषणे ॥ ११९ ॥
धर्मिणः – उभयसंप्रतिपन्नस्य पक्षस्य । लौकिकप्रत्यक्षस्य धर्मं प्रत्यप्रमाणत्वसाधने सिद्धसाधनम् ; योगिप्रत्यक्षस्य भवदनभिमतत्वात् पक्षत्वमेव न संभवतीत्युभयथापि सूत्रं व्यर्थमित्यर्थः ॥
265
•
तवापीति । न हि प्रमाणसिद्धस्यापह्नवः केनापि कर्तुं शक्य इत्यर्थः ॥ व्याघात इति । परसम्मतं हि योगिप्रत्यक्ष धर्मग्रहणशक्तम्, तत्कथं परंसम्मतं सिद्धवत्कृत्य तस्य धर्मग्राहकत्वमात्रं नाङ्गीक्रियत इत्यर्धजरतीत्यर्थः । एतदेवोपपादयति - परैहत्यादि । तथोक्तं ' अतीतानागतेऽप्यर्थे सूक्ष्मे व्यवहितेऽपि च । प्रत्यक्ष योगिनामिष्टं कैश्चित् (श्लो. वा. 1-1-4-26) इत्यादि । परे - शाक्या र्हतादयः ॥
पर संसिद्धमूलं - परमतमात्र सिद्ध पक्षकभू । उक्तमिति । तथा हि वार्तिकम् (श्लो. वा. 1-1-5- निरा. 45 ) 'अथापि रूढिरूपेण प्रत्ययः स्यात् तथापि तु । प्राकं वस्तु सिद्धं नः प्रत्ययोऽन्यस्य वस्तुनः । तमभ्युपेत्य पक्षश्चेत् अभ्युपेतं विरुध्यते ' इत्यादि । अयं भावः । सर्वोsपि प्रत्ययः मिथ्या,
2 माणले - क.
1
प्रमाणपक्ष-क्र.
3
दूषणम - ख.