________________
264
मीमांसकसम्मतप्रत्यक्षलक्षणनिरासः न्यायमञ्जरी - प्रत्यक्षग्रहणमपि हेतुनिर्देशार्थमेव। सत्संप्रयोगस्यासिद्धतां ब्रुवन्ननेन प्रत्याख्यायते सत्संप्रयोगजं प्रत्यक्षं प्रत्यक्षत्वादिति । तदुक्तम् (श्लो. वा 1-1-4-21)
'प्रत्यक्षत्व'मदोहे 'तुः शेषं हेतुप्रसिद्धये' इति ।
स्वातन्त्र्येणापि प्रत्यक्षत्वं धर्मग्राहकत्वनिषेधाय वक्तव्यम् । न. धर्मग्राहि प्रत्यक्षं, प्रत्यक्षत्वात् , अस्मदादिप्रत्यक्षवत् इत्येवमन्यत्रैव सूत्र तात्पर्यात् नातिव्याप्त्यादिदोषावसर इहेति ।।
[अनुवादकत्वेऽपि सूत्रस्य दोषकथनम् ] .. .. तदेतदपि न प्रामाणिकमनोऽनुकूलम्। कतरस्य प्रत्यक्षस्य धर्म प्रत्यनिमित्तत्वं प्रतिपाद्यते? किमस्मदादिप्रत्यक्षस्य ? योगिप्रत्यक्षस्य वा? तत्र अस्मदादिप्रत्यक्षस्य तथात्वे सर्वेषामविवाद एवेति किं तत्रेयता श्रमेण ! योगिप्रत्यक्षस्य तु भवतामसिद्धत्वात् कस्य धर्म 'प्रत्यनिमित्तत्व' प्रतिपादनम् ?
प्रत्यक्षेति। तदनिमित्तम्' इत्येवालमित्यर्थः । अदोहेतु -सत्संप्रयोगजत्वे हेतुः। तथा हि व्याख्यातं मित्रैः-'सत्संप्रयोगजत्वस्यैव कुत: सिद्धिरित्यत आह-प्रत्यक्षत्वमिति । तदेते त्रयः प्रयोगाः, प्रत्यक्षमनिमित्तं, विद्यमानोपलंभनत्वात् ; विद्यमानोपलंभनत्वं च सत्संप्रयोगजत्वात् ; सत्सं. प्रयोगजत्वं च प्रत्यक्षत्वादिति' इति । शेषं सूत्रं विद्यमानोपलंभनत्वरूपहेतोरसिद्धयाशंकायां हेतुसिद्धयर्थ प्रवृत्तमित्यर्थः । प्रत्यक्षत्वं-प्रत्यक्षलक्षणम् । प्रत्यक्षं न धर्मग्राहक इति वक्तव्ये, कुत इति प्रश्ने, प्रत्यक्षस्यैवंरूपत्वादिति खलु वक्तव्यमित्यर्थः । अन्यत्रैव-लक्षणादन्यस्मिन्ननुवाद एव ।।
तथात्वे-प्रत्यक्षं प्रत्यप्रमाणत्वे। योगीति। तथोक्तं वार्तिके'अस्मदादी प्रसिद्धत्वायोग्यर्थमभिधीयते' (1-1-1-21) इति ॥
'मतो हे-क, ख. 2 शेषहेतु-क. ' मन्यसूत्र-क. 'प्रत्यप्रमाणता-ख.