________________
आह्निकम् २]
जैमिन्युक्तप्रत्यक्षलक्षणनिरास:
263
[संशयस्येन्द्रियजन्यत्वोपपादनम् ] ननु ! उभयविषयं ज्ञानम् ; न चोभाभ्यां संप्रयुक्तमिन्द्रियम् --- मैवम् न हि धवखदिरवत् द्वावपि संशयसंविदि प्रतिभासेते। किं तु स्थाणुर्वा पुरुषो वेति अनिर्धारितैकतरपदार्थतत्त्वावमर्शी संशयो जायते । नूनं च तयोरन्य'तरेणेन्द्रियं संप्रयुक्तमेवेति । उभयावमर्शित्वाच्च संशयस्य येन संप्रयुक्तं चक्षुः तद्विषयमपि तज्ज्ञानं • भवत्येवेति नातिव्याप्तिः परिहृता भवति ॥
[सूत्रस्यानुवादकत्वोपपादनं परैः] अथ व्रयुः-किमनेन परिक्लेशेन ? 'न लक्षण वर्णनमस्माकमभिमतम् , अनुवादपक्षनिक्षिप्तत्वात् । अपि तु लोकप्रसिद्धप्रत्यक्षानुवादेन धर्म प्रत्यानिमित्तत्वमेव विधीयते ! न धर्म प्रति प्रमाणं प्रत्यक्षं, विद्यमानोपलंभनत्वात्-विद्यमानार्थग्राहित्वादित्यर्थः । धर्मश्च न वर्तमानः ; त्रिकालानवच्छिन्नस्य तस्य 'यजेत' 'दद्यात्' 'जुहुयात् ' इत्यादिशब्देभ्यः प्रतीतेः ।।
तर्हि 'सत्सं'प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्' इति किमर्थो ग्रन्थ इति 'चेत्-न-विद्यमानोपलंभनसमर्थनाथेत्वात्। यदि विद्यमानो पलंभनत्वमसिद्ध मिति परो यात्-स वक्तव्यः-विद्यमानोपलंभनं प्रत्यक्षं, सत्संप्रयोगजत्वादिति ॥ : ननु यावद्विषयसंयोग एव विवक्षणीयः। अन्यथा हि भ्रमेऽपि धयंशे सन्निकर्षसत्त्वात् कथं वारणम् ! तथा च संशयव्युदास इति शङ्कते.-. नन्विति । ज्ञानं- संशयः। धवखदिरवदिति । समुच्चयात्मकज्ञान इव इति यावत् । तद्विषयमपीति । अन्यतरस्यैव प्रकारत्वेन तदंशे इन्द्रियसन्निकर्षोऽस्त्येव । अन्यथा प्रत्यभिज्ञाद्यपि न प्रत्यक्षं स्यादित्यर्थः ॥ ___ यथार्थमाशयमनुवदति- अथेति। त्रिकालेति। न हि कालविशेष एव विधायको विधिरित्यर्थः । भूतो भविष्यंश्च धर्मों वर्तत एव ॥
किमर्थ इति । 'प्रत्यक्षमनिमित्तं, विद्यमानोपलंभनत्वात्' इत्येतावतैवोक्तार्थलाभादित्यर्थः ॥
1 तरेण-क. - लक्षण-ख.
मपि-क. तत्सं-क.
चेन्न विद्यमानो-ख.