________________
मीमांसकसम्मत प्रत्यक्षलक्षणनिरास:
[न्यायमञ्जरी
अक्षरमपि मात्रामपि वा सूत्रे पश्यामः । सतां संप्रयोग इति च 'पद' निरालम्बन' ज्ञान निवृत्तये वर्णितम् । सप्तम्यैव गतार्थत्वादनर्थकम् ॥
'सति' इति तु 'सति
262
लोकत एव कार्यविशेषावगमात् प्रयोगसम्यक्तमवगमिष्यामः इति चेत्-लोकत एव प्रत्यक्षस्य सिद्धत्वात् किं तलक्षणे सूत्र - सामर्थ्य योजनाक्लेशेन ॥
[उपवर्षो क्तप्रत्यक्षलक्षणवर्णनम् ]
यदप्यत्र 'भगवान्' वृत्तिकारः प्राह-यत् प्रत्यक्षं न तद्यभि चरति, ''यत् व्यभिचारि न तत्प्रत्यक्षम् । किं तर्हि प्रत्यक्षम् ? तत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत् प्रत्यक्षम् । यद्विषयं ज्ञानं तेनैव संप्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत्प्रत्यक्षम् । यत् अन्यविषयकं ज्ञानमन्यसंप्रयोगे भवति न तत् प्रत्यक्षमिति ' इत्येवं तत्सतोर्व्यत्ययेन लक्षणमनपवादमवकल्पत इति - तदपि वृथाऽटाट्यामात्रम् ; संशयज्ञानेन व्यभिचारानतिवृत्तेः । तत्र हि यद्विषयं ज्ञानं तेन संप्रयोग इन्द्रियाणामस्त्येव ॥
·
ननु ज्ञानं न तथा विशेष्यते । अथापि अर्थप्राप्तयप्राप्तयो:, लोकसिद्धत्वात् तदादायैव सन्निकर्षसदसत्त्वं निर्णेष्याम इति शङ्कते - लोकत एवेति । तर्हि प्रत्यक्षस्वरूपादिकमपि लोकत एव प्रतिपद्यतां, किं तलक्षणाद्यभिधानेनेति समाधानग्रन्थाशयः ॥
अनपवादं - असद्विषयक भ्रमव्यावृत्तम् । वृथाऽटाट्या वृथाभ्रमणम् ॥
1 परं - ख.
,
2 विज्ञान - क्र. 3 सप्तम्यैव - ख. 4 भवान् क, ख. 5 यद्व्यभिचारि न तत्प्रत्यक्षं यत् प्रत्यक्षं न तद्व्यभिचरनि । तत्संप्रयोगे(शिष्टं यथानिवेशितमेव ) - क. यद्व्यभिचारि न तत् प्रत्यक्षं यत् प्रत्यक्षं, यद्विषयं ज्ञानमन्यसंप्रयोगे भवति न तत्प्रत्यक्षं इत्येवं - ख. 6 संप्रयोगे इन्द्रियाणां बुद्धिजन्म सत्प्रत्यज्ञं तदन्यविषयं ज्ञानं अन्यसंप्रयोगे भवति न तत् प्रत्यक्षमस्त्येव - ख.