________________
आह्निकम् २]
जेमिनयुक्त प्रत्यक्षलक्षणनिरासः
अथ सत्संप्रयोग इति सतां संप्रयोग इति व्याख्या 'स्यते'तथाऽपि निरालम्बनविभ्रमा एवार्थनिरपेक्षजन्मानो निरस्ता भवेयुः, न सालम्बनौ संशयविपर्ययौ ॥
अथ सति संप्रयोग इति सप्तमीपस एव न त्यज्यते ; संशयविपर्ययच्छेदी च संप्रयोग इत्युपसर्गो वर्ण्यते । यथोक्तम्-
'सम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः । दुष्टत्वाच्छुक्तिकायगो वार्यतामक्षजेक्षणात् ॥ ' इति ।
(श्लो. वा. 1-1-4-39) तथाऽपि प्रयोगसम्यक् स्यातीन्द्रियत्वेन प्रत्यक्षानवगम्यत्वात् कार्यतोऽवगतिर्वक्तव्या । कार्य त्र ज्ञानम् । न च तदविशेषितमेव प्रयोगस्य सम्यक्तामवगमयति । न च तद्विशेषणपरमिह पदमपि,
261
प्रत्यक्षाप्रवृत्तौ हेतुः विद्यमानोपलंभनत्वादिति । प्रत्यक्षस्य विद्यमानोपलंभनत्वमेवा सिद्धमित्याशंका 'सत्संप्रयोगे' इत्यनेन वार्यत इति कथनमेव सुन्दरम् इदं च कर्मधारयाश्रयणे कथं वा सिध्येत् ? आर्थिकं तदिति चेत्, ततो वरं शाब्दस्वकल्पनम् । असतां संप्रयोगस्यासंभवात् सदिति व्यर्थमिति धर्मकीर्तिदूषणभीत्या कर्मधारयाश्रयणमपि न युक्तम्, सूत्रस्यानुवादकत्वेन लक्षण - परत्वाभावेनैव तन्मुखपिधानात् । कर्मधारयाश्रयणेऽपि हि सत्पदं व्यर्थमेव । संप्रयोगे' इत्यस्य निमित्त सप्तमीत्वेन विद्यमानस्यैव निमित्तत्वसंभवात् तेनैव विद्यमानत्वं लभ्येत । परमते अविद्यमान संप्रयोगजन्ययोगिप्रत्यक्षवारणाय तदिति वर्णनमपि न चारुतरम् । परमतदृष्ट्या लक्षगे विशेषणदानस्यासंभवात् । अतः प्रकृतात्यन्तोपयुक्ततत्पुरुषाश्रयणमेव वरम् ॥
1
संशयविपर्ययाविति । एतयोः इन्द्रियार्थसन्निकर्षजन्यत्वं पूर्व (पु. 232-233) उपपादितम् ॥
दुष्प्रयोगः --असत्सन्निकर्षः । अतीन्द्रियत्वेनेति । शुक्तिरजतसत्यरजतसन्निकर्षयोर्हि वैलक्षण्यं न तदानीभनुभवसिद्धम् । अविशेषितं - दुष्टज्ञानवारकविशेषणासहितं, तत् ज्ञानम् । ज्ञानं सम्यक् चेत् कारणमपि सम्यक, नो चेन्न - इत्येव वक्तव्यमित्यर्थः ॥
1 यते-ख.
2
सत्स- ख.