________________
260 मीमांसकसम्मतप्रत्यक्षलक्षणनिरास:
न्यायमञ्जरी परत्वेन न व्याख्यातम् ; 'चोदनालक्षणोऽर्थो धर्मः' इति प्रकृतप्रतिज्ञासङ्गत्यभावात् । अपि तु-धर्म प्रति प्रत्यक्षमनिमितं, एवं लक्षणकत्वादिति 'अनुवादभङ्गया लक्षणे योजितम् । यथोक्तम्___ एवं सत्यनुवादत्य' लक्षणस्यापि संभवेत्' इति।
(श्लो. वा. 1-1-4-39) तदेतल्लक्षणवर्णने सूत्रयोजनमसमीचीनम् ; अतिव्याप्तिदोषानतिवृत्तेः! . तथा हि -इन्द्रियाणां 'सति संप्रयोगे पुरुषस्य जायमाना बुद्धिः प्रत्यक्षमिति सूत्रार्थः । तथा चातिव्याप्तिः--संशयविपर्ययबुद्धयोरपि इन्द्रियसंयोगजत्वेन प्रत्यक्षत्यप्रसङ्गात् ॥
सङ्गत्यभावादिति। इदं नैकं सूत्रं, किन्तु तत् प्रत्यक्षमित्येकं लक्षण- . परं-- अन्यच्च भिन्नं सूत्रमिति व्याख्यातवन्तं भवदासं दूषयद्भिः भट्टपादैरपि 'वर्ण्यते सूत्रभेदेन येन प्रत्यक्षलक्षणम्। तेन सूत्रस्य सम्बन्धो वाच्यः पूर्वप्रतिज्ञया' इति सङ्गत्यभाव एव दूषणमुक्तम्। धर्मविचार: खलु प्रतिज्ञात:, तस्य नेदं प्रत्यक्षलक्षणं साक्षात्संगतमिति ।।
एवं लक्षणकत्वादिति--प्रत्यक्षस्येति शेषः। एवमिति। अस्य लक्षणवाक्यस्य अनुवादरूपत्वमपि संभवेत् । लोकसिद्धलक्षणानुवादेन धर्मे प्रत्यक्षस्य प्रमाणत्वमुच्यत इत्यर्थः। अनतिवृत्तरिति । पार्थसारथिमित्रैः न्यायरत्नाकरे ‘भवदासेन हि सता संप्रयोग इत्युक्तं, संप्रयोगशब्दश्च सकलसम्बन्धवचनो व्याख्यातः। अतस्तस्यानुमानादिषु आभासेषु चातिव्याप्तिर्भवति, नास्मध्याख्याने इत्युक्तं ' न युक्तमित्यनेन सूचितम् ॥ .
सतीत्यादि । 'सति इन्द्रियार्थसम्बन्धे' इति शाबरं भाष्यम् । यद्यपि अत्र-इदं वाक्यं न विग्रहपरं, किन्तु व्याख्यानमात्रम् । विग्रहस्तु संश्चासौ संप्रयोगश्च हत्येवेति ‘अविद्यमानसंयोगात प्रत्यक्षत्वनिराकृतिः' (1-1-1, 36) इति वार्तिके, तद्व्याख्यासु चाभिहितम् , परन्तु ग्रन्थकृतां सप्तमीतत्पुरुष एवात्र भाष्यकारसम्मत इति अभिप्रायः। 'सप्तमीपक्ष एव न त्यज्यते' इत्यनुपदं वदन्ति च । अयमाशयो ग्रन्थकृताम्- इदं च सूत्रं न प्रत्यक्षलक्षणपरं, किन्तु धर्मे प्रत्यक्षाप्रवृत्तिनिरूपणपरमिति सम्मतमेय। धर्म
अनुवादत्वं--ख.
सत्संप्रयोगे सति -ख.