________________
आह्निकम् २]
सांख्यमीमांसकप्रत्यक्षलक्षणनिरास:
इति सुनिपुण बुद्धिर्लक्षणं वक्तुकामः पदयुगलमपीदं निर्ममे नानवद्यम् । भवतु, मतिमहिम्नश्चेष्टितं दृष्टमेतत् जगदभिभवधीरं धीमतो धर्मकीर्तेः ॥ ११५ ॥
[सांख्योक्तप्रत्यक्षलक्षणदूषणम् ]
श्रोत्रादिवृत्तिरपरैर विकल्पकेति प्रत्यक्षलक्षणमवर्णि तदप्यपास्तम् । 'साम्यान्न' यस्य, न च सिद्धयति बुद्धिवृत्या द्रष्टृत्वमात्मन इति प्रतिपादितं प्राक् ॥ ११६ ॥
[जैमिन्युक्तप्रत्यक्षलक्षणदूषणम् ]
'सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलंभनत्वात्' इत्येतत्सूत्रं जैमिनीयै: 'साक्षात्प्रत्यक्षलक्षण
दिङ्नागस्तु 'प्रत्यक्षं कल्पनापोढं ' ( प्रमाणसमुच्चये) इत्येतावन्मात्रं लक्षणमुक्तवान् । तत्र दोषं पश्यन् अभ्रान्तपदेन तत् परिष्कृतवान् धर्मकीर्ति - रिति निपुणबुद्धिरिति नर्मोक्तिः । नायं तदपराध:, किन्तु मतिवैभवयेत्याह-- भवत्विति ॥
259
श्रोत्रादीति । युक्तिदीपिकायां श्रोत्रादिवृत्तेः प्रत्यक्षप्रमाणत्वमुपपादितम् । सृष्टिप्रक्रियायां श्रोत्रेन्द्रियस्याद्यत्वात् तस्योत्कीर्तनम् । प्रमाणभूतप्रत्यक्षबोधनाय अविकल्पकपदम् । नयस्य साम्यात्--' न तु पररचितानि लक्षणानि क्षणमपि सूक्ष्मदृशां विशन्ति चेत:' इति न्यायस्य साम्यात् । दोषमप्याह - न चेत्यादि । प्राक् 69-70 पुटयोरिदं द्रष्टव्यम् ॥
2
. सदित्यादि । अत्र ' तत्प्रत्यक्षं ' इत्यन्तं लक्षणवाक्यम् । एतादृशं • प्रत्यक्षं धर्मं प्रति अनिमित्तम् - अप्रमाणम् - प्रत्यक्षेण धर्मः ग्रहीतुं न शक्यत इत्यर्थः । तत्र हेतुः - विद्यमानेति । प्रत्यक्ष खलु वर्तमानमात्र ग्राहकम् धर्मस्तु अतीतः अनागतश्च वर्तते । तयोः कथं प्रत्यक्षेण ग्रहणं स्यात् । अतः विधिरेव (वेद एव) धर्मे प्रमाणं ; नान्यदित्यर्थः ॥
माध्यात्र क. साक्षालक्षण- ख.
17