________________
258 बौद्धसम्मतप्रत्यक्षलक्षणनिराकरणम्
न्यायमअरा अयुक्तं तु-कल्पनाऽपोढपदेनैव तयुदाससिद्धः। तत्रापि निर्विकल्पकं ज्ञानं एकचन्द्रादिविषयमेव, विकल्पास्तु विपरीताकारग्राहिणो भवन्ति ; यथा मरीचिग्राहिणि निर्विकल्पके सलिलावसायी विकल्प इति ॥
[अभ्रान्तपदप्रयोजनसमर्थनं - तन्निराकरणं च] ननु ! तिमिरेण द्विधाकृतं चक्षुरेकतया न शक्नोति शशिनः . ग्रहीतुं इति निर्विकल्पकमपि 'द्विचन्द्रादि'ज्ञानम्-यद्येवं तरल तरङ्गादि सादृश्यरूषितं ऊपरे मरीचिचक्रं चक्षुषा परिच्छेत्तुमशक्यमिति तत्रापि निर्विकल्पकमुदकग्राहि विज्ञानं किमिति नष्यते ? . अभ्युपगमे वा सदसत्कल्पनोत्पातादिकृतः प्रमाणेतरव्यवहारो न स्यात् ॥
[ज्ञानानां भ्रमत्वनिदानम्] अपि च न बाधकोपनिपातमन्तरेण · भ्रान्तताऽवकल्पते ज्ञानानाम् । न च क्षणिकवादिमते बाध्यबाधकभावो बुद्धीनामुपपद्यत इत्यलं विमर्दैन । ____ पूर्वोक्तं (पृ. 235) दलकृत्यं शङ्कते-नन्वित्यादि । तिमिरादिदोषदुष्टमपि चक्षुः प्रथमसन्निकृष्टं चन्द्रं गृह्णाति । दोषवशात् नयनद्वयगतरश्मिद्वयं स्वतन्त्रं चन्द्रसंयुक्तं पृथक्पृथक् चन्द्रं गृह्णाति । अतः द्वित्वप्रतिभासः । परन्तु प्रत्येकं प्रत्येकं यथावस्थितवस्तुग्रहणात् न तत्र कल्पनावकाशः । अतश्च कल्पनापोढत्वात् द्विचन्द्रभ्रमेऽतिव्याप्तिः। अतः अभ्रान्तपदम् । यद्यपि शुक्तिरजतादिज्ञानेऽप्यतिव्याप्तिर्वक्तुं शक्या, परन्तु कल्पनापोढपदेनैव तैभिरिकज्ञानस्य स्पष्टनिरस्यत्वप्रतीतये द्विचन्द्रज्ञानमुपात्तम्। समाधत्ते-यद्येवमिति । मरीचिज्ञानमपि अभ्रान्तपदेनैव वारयाम इति चेत्तत्राह--अभ्युपगम इति । तथा च अभ्रान्तपदेनापि व्यावृत्तिर्दुवचैव स्यात् । प्रथमाक्षसन्निपातप्रभवत्वेन निर्विकल्पवदेव हि तेषामपि प्रामाण्यमेव वक्तव्यं स्यादित्याशयः ॥
न चेति । ज्ञानानां क्षणिकत्वेन बाधकज्ञानकाले बाध्यं ज्ञानं स्वयमेव नष्टमिति कथमनयोर्बाध्यबाधकभाव इति भावः ॥
1द्विचन्द्र-ख.
तरङ्गादि-ख.