________________
आह्निकम् २]
अभ्रान्तपदवैयर्थ्यांपपादनम्
किमात्मकोऽसाविति चेद्यद्यदा प्रतिभासते । वस्तुप्रमितयश्चैव प्रष्टव्या न तु वादिनः ॥ ११० ॥ कचिजातिः कचिद्दव्यं कचित्कर्म कचिद्गुणः । देव सविकल्पेन तदेवानेन गृह्यते ॥ १११ ॥ इह शब्दानुसन्धानमात्रमभ्यधिकं परम् । 'विषये न तु भेदोऽस्ति सविकल्पा विकल्पयोः ॥ ११२ ॥ अतः शब्दानुसन्धानवन्ध्यं तदनुबन्धि वा । जात्यादिविषयग्राहि सर्व प्रत्यक्षमिष्यते ॥ ११३ ॥
तस्माद्यत्कल्पनापोढपदं प्रत्यक्षलक्षणे । भिक्षुणा पठितं तस्य व्यवच्छेद्यं न विद्यत ॥ ११४ ॥
[' अभ्रान्त' पदप्रयोजनदूषणम् ]
अभ्रान्तपदस्यापि व्यावर्त्य न किंचन' तन्मते ' पश्यामः ॥ ननु ! तिमिर-आशुभ्रमण - नौयान-संक्षोभाद्याहितविभ्रमं द्विचन्द्रअलातचक्र चलत्पादपादिदर्शनम पोह्यमस्य परैरुक्तम - सत्यमुक्तम्,
ननु शब्दानुले खिनी प्रतीतिः कीदृशी स्यादित्यत्र - अनुभवं पश्येति वदति - वस्त्वित्यादि ॥
•
257
इह - सविकल्पे । शब्दः-वाचकशब्दः । तस्मादिति - नामजात्यादि
विषय प्रत्यक्षस्यापि
प्रत्यक्षप्रमाणत्वेन तद्व्यावृत्यर्थं कल्पनापोढपदमिति
न युज्यत इत्यर्थः ॥
'तिमिराशुभ्रमणनौयान संक्षोभाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम् ' इति न्यायबिन्दुः | अत्र 'संक्षोभः - वातपित्तश्लेष्मणाम् । तेन ज्वलितस्तंभादिभ्रान्ति : ' इति धर्मोत्तरटीका । संक्षोभ : - चित्तसंक्षोभ इति यावत् । द्विचन्द्र - इत्यादीनां यथासंख्यमन्वय: । अलातं अर्धदग्धकाष्ठः । तस्याशुभ्रमणेन चकार भ्रान्तिविषयः चक्रं अलातचक्रमुच्यते । एवञ्च द्विचन्द्रभ्रमे तिमिरं दोष:, अलातचक्रभ्रमे आशुभ्रमणं, चलत्पादपभ्रमे नौयानं दोष:, आदिपदग्राह्यपिशाचभ्रमादौ संक्षोभादिरिति ग्राह्यम् ||
2 सन्मतेन - ख.
1 विधेये-क NYAYAMANJARI
17