________________
256
बौद्धसम्मतप्रत्यक्षलक्षणनिराकरणम् न्यायमचर। 'यत्र' यत्र यदोद्भूतिः जिघृक्षा चेति कथ्यते । तदात्मकत्यं धर्माणामुच्यते चेत्यसङ्गतम् ॥ १०७ ॥ देशभेदस्तु धर्माणां अस्माभिरपि नेष्यते । धर्मी हि तेषामाधारो न पुनस्स तदात्मकः ॥ १०८ ॥
[निर्विकल्पकविचारोपसंहारः] तस्माद्य एव वस्त्वात्मा सविकल्पस्य गोचरः। . स एव निर्विकल्पस्य शब्दोल्लेखविवर्जितः ॥ १८९ ॥
अत्रैवं पृच्छयते-नामजात्यादिशवलं वस्तु निर्विकल्पे भासत इत्यत्र, किं. धर्मिणोऽत्यन्तं भिन्नैः धर्मिणि वर्तमानैर्नामजात्यादिभिः शबलितं वस्तु ? उतात्यन्ताभिन्नैः तादृशैः? उत भिन्नाभिन्नैः ? आयेऽस्मदिष्टापत्तिः। द्वितीये तु . अभिन्नयोधर्मधर्मिभावः कथम् ? न हि स्वयमेव धर्मः धर्मी च भवितुमर्हति । एवं च एकस्यैव धर्मिणः तत्वेन-धर्मात्मकत्वेनाग्रहणात् धर्माणां धात्मकत्वं. धर्मिणो धर्मात्मकत्वं वा कथम। नान्त्यः--भेदाभेदयोः परस्परविरुद्धत्वेनैकत्रासंभवात् । ननु उपपादकांशभेदाद्विरोधं परिहराम:-- तथोक्तं - 'एवञ्च परिहर्तव्यः भिन्नाभिन्नत्वकल्पना । केनचित् स्यात्मनैकत्वं नानात्वं चास्य केनचित् ' इति ॥
अत्र न्यायरत्नाकरः- 'यत्तु अन्यानन्यतैव कथमेकस्येत्युक्तं तत्राहएवञ्चेति । एतदेव दर्शयति-कनचिदिति । गोत्वं हि शाबलेयात्मना बाहुलेयाद्भिद्यते, स्वरूपेण च न भिद्यते। तथा व्यक्तिरपि गुणकर्मजात्यन्तरात्मना गोत्वाद्भिद्यते, स्वरूपेण च न भिद्यते। तथा व्यक्तयन्तगदपि व्यक्तिर्जात्यात्मना न भिद्यते, स्वरूपेण च भिद्यत । अपेक्षाभेदाच्चाविरोधः ' इत्यादि । तथा च को दोष.? इति चेत् -- एवं तर्हि अनुवृत्तांशव्यावृत्तांशभेदस्य सिद्धत्वाद्धर्मधर्मिभेद एव दृढीकृतो भवति। अपेक्षावशात् यत्र यस्य धर्मस्य उपादित्सा तस्य तत्रोद्भवः ग्रहणं चेत्युच्यते, अभेदश्च तयोरुच्यत इति विचित्रमिदम् । अतोऽयमपि पक्षो न युक्तः ॥
यस्य-ख.