________________
अह्निकम् २
निर्विकल्पविषयविचारः
255
कथं च चाक्षुषे ज्ञाने वाक्तत्त्वमवभासते ॥ १०३ ॥ अगृहीते तु सम्बन्धे गृहीते वाऽपि विस्मृते । Tagsपि संस्कारे वाचकावगतिः कुतः १ ॥ १०४ ॥ [जात्यादिश चलितमपि न निर्विकल्पस्य विषयः ] चित्रताऽपि पृथग्भूतैर्थ मैस्तत्समवायिभिः । जात्यादिभिर्यदीष्येत धर्मिणः काममस्तु सा ॥ १०५ ॥ तदात्मता तु नैकस्य नित्यं तवानुपग्रहात् । अंश निष्कर्षपक्षे तु धर्म मेदो वलाद्भवेत् ॥ १०६
तथोक्तं च - (वाक्यपदीयो 3-32) 'सत्यासत्यों तु यौ भावों प्रतिभावं व्यवस्थितौ । सत्यं यत् तत्र सा जातिरसत्या व्यक्तयः स्मृताः । सम्बन्धिभेदात्सत्वभिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः । सानिया सा महानात्मा' इति । एवञ्च ब्रह्मविवर्तवादे प्रदर्शिता दोषा अत्रापि समानाः |
कथमिति । शब्दो हि श्रावण इति भावः । ननु ज्ञानलक्षणा प्रत्यासत्या शब्दभानं भवताप्यङ्गीकृतं, कः प्रद्वेषोऽस्मासु । इत्यत्राह – अगृहीत इति । सत्यमङ्गीकृतमस्माभिः, विकल्पस्थले पूर्वमेव गृहीतशक्तिकस्य तद्युज्यते । न तु प्राथमिकप्रत्यये । विकल्पस्थलेऽपि वाचकवाव्दस्याज्ञाने, ज्ञातेऽपि संस्कारमोवशासरणे, सत्यपि संस्कारे उद्बोधकासमधाने वा कथं शब्दभानं स्यात् । सूक्ष्मशब्दभानादिकं तु स्फोटवादे विचार्यते ॥
,
चित्रतेत्यादि । अयमर्थः । एकस्मिन् धर्मिणि विद्यमानाः जातिगुणकिवात्मका धर्माः प्रथमग्रहणेऽपि गृह्यन्त एव । परन्त्वर्य धर्मी, अयं गुणः, इयं जाति, इय क्रियांत विविच्य न भासते । अतस्तन्निर्विकल्प मित्युच्यते । धर्मधर्मिणोश्च भेदाभेदविवेति पूर्वमेवोक्तम् । तत्र निर्विकल्पेऽभेदांशस्यैयौ स्कटयम् । तदनन्तरं च पुरुषापेक्षानुगुणं जातिः गुणो वा धर्मिणः पृथगुद्धतं सत् गृह्यते । प्रयोक्ता कुतिबारे भेदेभ्योऽनन्यरूपेण सामान्यं गृह्यते यदा । मात्रेण वस्तु प्रत्यवभासते । तदुद्भूत्या च सामान्य तद्भावानुगुणं स्थितम् । सदप्यग्राह्यरूपत्वादसद्वत्प्रतिभाति न । विशेधानपि सामान्याचदा भेदन बुध्यते । तदा सामान्यमात्रत्वमेवमेव प्रतीयते । यदा तु शबलं वस्तु युगपत्पद्यते । तदान्यानन्य भेदादि सर्वमेव प्रलीयते' इति ॥