________________
आद्विकम् २] निर्विकल्पविषयविचार:
253 न तु शपथशरणा एव निरुद्यममास्महे। मार्गान्तरेणापि तत्प्रमेयं निश्चिनुमः ॥
निर्विकल्पानुसारेण सविकल्पकसंभवात् । 'ग्राह्यं तदानुगुण्येन निर्विकल्पस्य मन्महे ॥ ९६ ॥
[स्वलक्षणमात्रं न निर्विकल्पविषयः] तत्र न तावत्सकलसजातीयव्यावृत्तं स्खलक्षणं प्रत्यक्षस्य विषयः॥
गृहीते निर्विकल्पेन व्यावृत्ते हि स्वलक्षणे ।
अकस्मादेव सामान्यविकल्पोल्लसनं कथम् ॥ ९७ ॥ निर्विकल्पानुसारेण हि विकल्पाः प्रादुर्भवितुमर्हन्ति । अपि च --
विजातीयपरावृत्तविषया यदि कल्पना। व्यावृत्तिरूपं सामान्यं गृहीतं हन्त ! दर्शनैः ॥ ९८ ॥
इति । शपथोऽपि यदि क्रियेत तदा का गतिरिति चेत् तत्राह-न स्वित्यादि ।
सकलेतरव्यावृत्तं स्वरूपमेव निर्विकल्पे भासते इत्युक्ते तत्र इतरपदार्थ:सजातीयो विजातीयश्च । तत्र सजातीयव्यावृत्ताकारभाने बाधकमाह-- सजातीयेति । गृहीत इत्यादि। अयमर्थः । निर्विकल्पेन सकलेतरव्यावृत्तं रूपमेव गृह्यते, सामान्यं तु विकल्पस्यैव विषय इति खलु तव मतम् । अत्रेदं पृच्छामः-सामान्य अन्यत्र कदापि गृहीतं अन विकल्पे भासते? उत कुत्रापि न? कुत्राप्यभातस्य भानं तु न संभवत्येव, न हि शशशृङ्गादिः कुत्रचिद्भासते। अन्यत्र भातं चेत् , किं विकल्पे? उत निर्विकल्पे? यदि विकल्पे तर्हि पुनरनवस्था। यदि निर्विकल्पे तर्हि सिद्ध नः समीहितमिति । 'व्यावृत्ते स्वलक्षणमात्रे निर्विकल्पेन गृहीते सति सामान्यविषयविकल्पः आकस्मिक एव कथं स्यात् ' इत्यर्थः ।।
अथ विजातीयव्यावृत्ताकारभाने दोषमाह-विजातीयेति। सामान्य हि भवन्मते अन्यापोहरूपम् । तथा च निर्विकल्पे सामान्यभानमंगीकृतमेवेति। ननु
'प्रायान्तरा-क.