________________
25
बौद्धसम्मतप्रत्यक्षलक्षणनिराकरणम्
न्यायमधरी
केचिद्गुणक्रियाद्रव्यजातिभेदादि'रूषितम्। शबलं वस्तु मन्यन्ते निर्विकल्पकगोचरम् ॥ ९३ ॥ प्रत्यक्षविषयेऽप्येताः चित्रं विप्रतिपत्तयः। परोक्षार्थे हि विमतिः प्रत्यक्षेणोपशाम्यति ॥ ९४॥ प्रत्यक्षे हि ममुत्पन्ना विमतिः केन शाम्यति ? इदं भाति न भातीति संविद्विप्रतिपत्तिषु।। परप्रत्यायने पुंसां शरणं शपथाक्तयः॥९५॥
केचित् -भाट्टाः । तथा च बार्तिकम्-'निर्विकल्पकबोधेऽपि यात्मक- ' स्यैत्र वस्तुनः। ग्रहणं' इति (प्रत्यक्ष-118)। अत्र न्यायरत्नाकरः'ब्यात्मकस्य --सामान्यविशेषात्मकस्येत्यर्थः । सामान्यावभासोऽपि. प्रतीतिसिद्ध एव। न हि निर्विकल्पकेनागृहीतस्य सविकल्पकेनापि ग्रहणं संभवति । न वाऽगृहीते सामान्ये व्यक्त्यन्तरे प्रत्यभिज्ञा संभवति। तस्मात् सामान्य विशेषश्च निर्विकल्पेऽपि प्रकाशत एव' इति.॥ ..
एवमाकृतिवादे च –' यदा तु शबलं वस्तु युगपत् प्रतिपद्यते । तदाऽन्यानन्यभेदादि सर्वमेव प्रलीयते' इत्युक्तम् । एतच्च निर्विकल्पविषयमिति तयाख्यायां उक्तम् । एतच्छलोकप्रत्यभिज्ञापनायैवात्रापि श्लोके 'शबल' शब्दप्रयोगः । अधिकमुत्तरत्र द्रष्टव्यम् ॥
एवञ्च भाट्टैः जातिव्यत्योर्गुणगुणिनोश्च भेदाभेदापरपर्यायस्य तादात्म्यस्यैवांगीकारात् निर्विकल्पे सामान्यविशेषोभयात्मकं वस्तु भासत इत्यङ्गीक्रियते । तथोक्तमाकृतिवादे--- 'तेन नात्यन्तभेदोऽपि स्यात्सामान्यविशेषयोः' इति । अत एव शतदूषिण्यां निर्विशेषविषयनिर्विकल्पभगवादे-'जातिगुणादिविशिष्टमेव द्रव्यं निर्विकल्पे भासते। परन्तु जातिगुणाद्यात्मकमपि वस्तु न तथा निर्विकल्पे विविच्यते। विकल्पे तु तदेव जातिगुणाद्यात्मना विकल्प्यते' इति अभिहितम् । इदं च मतं कौमारिलानामिति तयाख्यायां चण्डमारुते महाचायरुक्तम् । अधिकमन्यत्र ग्राह्यम् ॥
परेति । एवं वादिषु विप्रतिपद्यमानेषु अनुभवे शरणीकरणीये सर्वेऽपि वादिनः स्वानुभवमपि तथा तथा माचक्षत इति अन्ततः शपथकरणमेवावशिष्यत
दूषितम्-ख.