________________
आह्निकम् २] निर्विकल्पविषयविचार:
251 महासामान्यमन्ये तु सत्तां तद्विषयं विदुः ।
वाग्रूपमपरे तत्त्वं प्रमेयं तस्य मन्वते ॥ २२ ॥ मित्यनुभूयत एव तथा च निर्विकल्पानुभवाजायमानापि स्मृतिः न स्पष्ट रूपा वा इदमिति ग्राहिणी वोपलभ्यत इति न निर्विकल्पृष्ठभावित्वकृतं तदिति ॥
अन्ये विति। ब्रह्मविवर्तवादिन इत्यर्थः । श्लोकवार्तिके प्रत्यक्षसूत्रे भट्टपादैः---'अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम्' इत्यारभ्य 'महासामान्यमन्यैस्तु द्रव्यं सदिति चोच्यते। सामान्यविषयत्वं च प्रत्यक्षस्यैवमाश्रितम् । विशेषास्तु प्रतीयन्ते सविकल्पकबुद्धिभिः' इत्यादिनोक्तान्यपक्षप्रत्यभिज्ञानायैवात्रापि ' महासामान्यमन्ये तु' इत्युक्तम् ॥
तच्च वार्तिकं . न्यायरत्नाकरे पार्थसारथिमित्रैः एवमवतारितम्'वेदान्तिनस्तु महासामान्यमेव सत्ता-द्रव्यशब्दाभिलप्यं निर्विकल्पस्य विषयमाहुः' इति ॥
भट्टोम्बेकैश्च तात्पर्यटकापां-'वेदान्तवादिनस्तु महासामान्यं निर्विकल्पस्य विषयमाहुः। तच्च केचित् सत्तामाहुः, अपरे द्रव्यमित्येतद्दर्शयति' इत्यवतारितम् ।
काशिकायां सुचरितमित्रैश्च 'अद्वैतवादिनस्तु सन्मात्रविषयं निर्विकल्पक प्रत्यक्षमित्याचक्षते, तदेतदुपन्यस्यति' इति स्पष्टमेवाभिहितम् ॥ ___अयञ्च पक्षः मण्डनमिश्रकृतब्रह्मसि द्वौ तर्ककाण्डान्ते 'यथानुवृत्तव्यवहारसिद्धिं यथाऽव भास कथयन्ति बाह्या: । तथैव भेदव्यवहारयोगं वदन्ति वेदान्तविवेकभाज:' इत्यत्र वर्णित: । बाह्याः बौद्धा: सकलव्यावृत्तं वस्त्वेव निर्विकल्पप्रत्यक्षविषय इति वदन्ति। वयन्तु सकलानुवृत्तं सत्तामात्रमेव तद्विषय इति वदामः इति तदर्थः ॥
सुरेश्वराचार्यैः बृहदारण्यकसम्बन्धवात : (918) 'वस्तुस्वरूपसंस्पर्शिचक्षुरादिभ्य उस्थितम् । भेदस्पृक् नाक्षजादि ......' इत्यत्रायमर्थ उक्त: । एतद्विस्तरश्च संक्षेपशारीरकाद्वैत सिद्धयादिषु द्रष्टव्यः ।।
अयं च पक्षः प्रथमं हरिणा वाक्यपदीये उपक्षिप्तः । अपरे--शब्दविवर्तवादिनः । तथा ह्यक्तं हरिणा वाक्यपदीये--.'अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरं । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः' इति । एवञ्च पूर्वोक्ता: ब्रह्मविवर्तवादिनः। हरिस्तु शब्दविवर्तवादीत्येतावाने व विशेषः । इतरत्सर्वमपि प्रायः तयोस्तुल्यम् ।।