________________
250 बौद्धसम्मतप्रत्यक्षलक्षणनिराकरणम्
न्यायमञ्जरी मनोराज्यविकारताना काममस्त्वप्रमाणता। यथास्नु प्रतानां न त्यसावक्षजन्मनाम् ॥ १० ॥
विकल्पा अपि स्वतन्त्राः] न च निर्विकल्पपृष्टभावित्वकृतमेषामेतद्रपम् ; 'विषयसंस्पर्श'मन्तरेण स्वतस्स्वच्छरूपाणां ज्ञानानामेवमाकारत्वानुपपत्तः कि निर्विकल्पपृष्ठभाविता करिष्यति ? तदनन्तरभाविनी हि स्मृतिरपि क्वचिदृश्यत पव; न च सा तच्छायावती इति दुराशामात्र मेतत् ॥
ननु निर्विकल्पकेनैव वस्तुसर्वस्वं गृहीतं एकस्यार्थस्वभावस्येति चर्णितम् प्रतिविहितमेतत्-गृहीतग्रहणेऽपि प्रामाण्यानपायात् ।। .
निर्विकल्पविषयवस्तुनि विप्रतिपत्तयः] . . 'किञ्च किं' निर्विकल्पके न गृह्यत इत्येतदेव न जानीमः ।।
भवन्तो निर्विकल्पस्य विषयं संप्रचक्षते । सजातीयविजातीयपरावृत्त स्वलक्षणम ॥ ९ ॥
भ्रान्तिज्ञानमेव नास्तीत्यत्राह-मनोराजोति! काकस्य सर्वत्र कामिनीदर्शनरूपाणामित्यर्थः। एवं पाञ्चित् स्वप्नानां च । यथावस्तु-वस्त्वनतिक्रम्य । असौ--अप्रमाणता ॥
निर्विकासमनन्तरभावित्वकृतमेव विकल्पानां इंदन्ताग्राहित्वादीति यदुक्तं तत्प्रत्याह---न चेति । पषा-सविकल्पानां । एतन्-स्पष्टत्वं इदन्ताग्राहिस्वादि। विषयेति। अयमर्थः ... तन्मते हि ज्ञानं स्वतो निराकारम् । विषयोलेखवशादेव साकारज्ञानानुभवः। एवञ्च विकल्पानां निर्विकल्पाधीनत्वेऽपि साकारत्वं विषय बन्धाधीनमेव वक्तव्यमिति निर्विकल्पपृष्टभावित्वं किं वा तत्र करिष्यतीति विकल्पानां विषयसंस्पर्शोङ्गीकरणीय एवेति । निर्विकल्प पृष्ठभाविनीषु स्मृतिषु इदन्ताग्राहित्वस्पष्टत्वादेरभावात व्यभिचरित चेदमित्याह-तदनन्तरेति। क्वचिदिति। यथा विशेषानवगाहि स्वरूपमात्रावगाहि निर्विकल्पं प्रथमं जायते, ततश्च तत्र विशेषभानादिकं ; एवं स्मरणस्थलेऽपि कदाचित् प्रथमं स्वरूपमात्रस्मरणं, ततस्तत्र विशेषचिन्तन
1 विधा-क.
किश्च-क.
'किच-क