________________
आह्निकम् २] विकल्पानां प्रामाण्यसमर्थनम
249 शब्दस्मृत्याख्यसामग्रयसामर्थ्यातिशयोद्भवः। प्रत्ययातिशयः मोऽयं इत्येवं प्राक् प्रसाधितम् ॥ ८५ ॥
दण्डयय मिति द्रव्याभेदकल्पना तु मन्दमतिभिरेवोदाहृता। न हि दण्डोऽयमिति देवदत्ते प्रतीतिः, अपितु दण्डीति । तत्र च प्रकृतिप्रत्ययौ पृथगेवोपलभ्येते-दण्डोऽस्यास्तीति 'दण्डीति। तदिह यथैव वस्तु तथैव तदवसाय इति नाभेदारोपः॥
कर्मणि 'तु द्वयमपि नास्ति; 'नाभिन्ने भेदकल्पना ; न च भिन्नेऽप्य भेदकल्पना॥
क्रिया हि "तद्वनो' भिन्ना भेदेनैव च गृह्यते । चलतीत्यादिबोधेषु तत्स्वरूपावभासनात् ॥ ८६ ॥ तेन क्रियांगुणद्रव्यनामजात्युपरञ्जितम् । विषयं दर्शयन्नति विकल्पो नाप्रमाणताम् ॥ ८७ ॥ विपर्ययात्समुत्तीर्ण इति साधु सहामहे। प्रमाणात्तु बाहर्भूतं विकल्पं न क्षमामहे ॥ १८ ॥ क्वचिद्वाधकयोगेन यदि तस्याप्रमाणता ।
निर्विकल्पेऽपि तुल्याऽसौ द्विचन्द्राद्यवभासिनि ॥ ८९ ॥ संज्ञाबोधकम्। प्राक्-अव्यपदेश्यपदकृत्यविचारावसरे ॥
प्रतीत्योलक्षण्यमुपादयति-तत्रेति। तदवसायः-- तज्ज्ञानम् ।।
कर्मणि विति। अयं गौः, नीलोऽयमित्यादौ सामानाधिकरण्यप्रतीतिर्वा वर्तते, कर्मणि तु तदपि नास्तीति सूचनाय तु शब्दः ॥ ... तत्स्वरूपेति। आश्रयातिरिक्तक्रियास्वरूपेत्यर्थः। धातोः क्रिया अर्थः, आख्यातस्य आश्रय: । न हि चलतीति प्रत्ययः सदाऽस्तीति क्रियातद्वतोभैंद इत्यर्थः। विषयं दर्शयन् विकल्प: अप्राणतां नैति इत्यन्वगः । विपर्ययादिति। विकल्पोऽयं विपर्ययविलक्षण इति सम्मतमेव, अप्रामाण्यं तु नेत्यर्थः। द्विचन्द्रेति। तस्यापि प्रथमाक्षपातजत्वादित्यर्थः। ननु तर्हि
' दण्डी-ख. तत्-ख.
नाभेदे-क.
तस्वतो-ख.
-क.