________________
248
बौद्धसम्मतप्रत्यक्षलक्षणनिराकरणम् न्यायमञ्जरी
पञ्चमविकल्पनिरास: ] अथास्य निर्विकल्पेनैव सर्वात्मना स्पृष्टत्वात् पिष्टपेषणमयुक्त. मिति सविकल्प'मधि'गतार्थग्राहित्वादप्रमाणमिति मन्यसे, तदपि न साधु -पूर्वमेव (पु. 56) परिहतत्वात् । न ह्यनधिगताधिगन्तृत्वं प्रामाण्यमित्युक्तम। गृहीतग्रहणेऽपि प्रमाणस्य प्रमाणत्वाननिवृत्तः ॥
[षष्ठविकल्पनिरास:] यत्त्वभ्यधायि-भिन्नेष्यभेदं अभिन्नेषु च भेदं कल्पयन्त्यः कल्पनाः, अतस्मिस्त'द्हणे प्रामाण्यमवहजतीति-तद्युक्तम् अतस्मि'स्तद्गहो' भवत्यप्रमाणत्व'कारणम् ; तत्त्विह नास्ति । तस्य हि बाधकप्रत्ययो पसन्निपातान्निश्चयः । न च भवदुपवर्णितासु पञ्चस्वपि जात्यादिकल्पनासु बाधकं किञ्चिदस्तीति नातस्मिस्तद्गाहिण्यः कल्पना भवन्ति ॥
जातिर्जातिमतो भिन्ना गुणी गुणगणात् पृथक् ।
तथैव तत्प्रतीतेश्च कल्पनोक्तिरबाधिका ॥ ८४ ॥ एतच्चोपरिष्टान्निणेप्यते ॥
द्रव्यनानोतु भिन्नयोभैदेनैव प्रतीतिः, नाभेदकल्पना। न हि 'देवदत्तशब्दोऽयम्' इत्येवं तद्वाच्यः प्रतीयते ॥
ननु 'देवदत्तोऽयं' इति संज्ञासंश्यभेदव्यवहारो दृश्यत एवेति चेत्न, शब्दविशिष्टतद्वाच्या वगतिरेषा, · न शब्दोऽस्यामर्थारूढोऽवभासते। न शब्दविवर्तरूपेणार्थः परिस्फुरतिः किं तर्हि ?
कथमत्राप्रामाण्य कारणाभावनिश्चय इत्यत्राह-तस्येति । तस्य---अप्रामाण्यस्य॥
तथैव-पृथक्वेनैव । अबाधिकेति । प्रामाण्यं प्रतीति शेषः॥
घटम्य रूपं, गवि गोत्वमित्यादौ गुणगुणिनोः भेदप्रतीतावपि, नीलो घटः, गौः इत्यदिसामानाधिकरण्यप्रतीतिरप्यस्ति । द्रव्यनाम्नोस्तु तदपि नास्तीति कथं तत्र अभेदकल्पनेति 'तु'शब्देन सूचितम् । दृश्यत इति। देवदत्तपदं हि तत्र
मपि-ख. ' द्हे-ख. स्तद्हणे-ख. ण-क. पनि-ख. 'इत्येवं तद्वाच्या-ख.