________________
मांह्निकम् ।
विकल्पानां प्रामाण्यसमर्थनम
247
अपि च प्रदर्शितप्राप्त्यादिव्यवहारवलन्तानद्वारकमिहापि तद्हणं भविष्यती ते सर्वथा न व्यवधानम्। तदेवं समयस्मरणसापेक्षत्वेऽपि नेन्द्रियार्थसलिकर्पोत्पन्नतामतिवर्तते सविकल्पकं विज्ञान मिति कथमप्रत्यक्षम् ?
[ तृतीयविकल्पनिरासः] यापुनः विशेषणविशेष्यग्रहणादिसामग्रयपेक्षत्वेन बहुप्रयाससाध्यत्वमप्रामाण्यकारणमभिधीयते -तदतीव सुभाषितम् ! न हि बहुक्लेशसाध्यत्वं नाम प्रामाण्यमुपहन्ति। उक्तं च 'न हि गिरिश्टङ्गमारुह्य यद्गृह्यते तदप्रत्यक्षम्' इति। रसादिज्ञानापेक्षया च 'रूपादिशा'नस्य दीपाद्यालोकाहरणप्रयाससाध्यत्वादप्रामाण्यं स्यात्॥
.. [चतुर्थविकल्पनिरासः] यदपि पूर्वापरपरामर्शरहितचाक्षुषविज्ञानवैपरीत्येन विकल्पज्ञानानां विचार कत्वादप्रामाण्यमुच्यते--- तदपि न सम्यक । सर्वत्र ज्ञानस्थ विचारकत्वानुपपत्तः। विचारको हि प्रमाता। स हि पश्यति, स्मरति, अनुसन्धत्ते, विचारयति, इच्छति, द्वेष्टि, यतते. गृह्णाति, जहानि, वस्त्रमनुभवतीति वक्ष्यामः। अर्थ च स्पृशतो विज्ञानस्य विचारयतोऽपि कथनप्रामाण्यं स्यात् ॥
प्रदर्शितति । इन्द्रियादिनेति शेषः। लोके ह्यभिमतमर्थ पश्यन प्रवृत्तस्तमेव प्रामोनीत सर्वसिद्धम् । क्षणभङ्गे च तत्सन्तानक्यान्निर्वाह्यम् । तत्र दृष्टस्यातिकान्तत्येऽपि यथा संतानक्यात् दृष्टस्यैव प्राप्तिरुच्यते भवद्भिः, तथा प्रकृतेऽप्यस्त्विति भावः। समयः- शन्तिः । वाचकशब्द इति यावत ॥
रसादीति। रसादिप्रत्यक्षं हि विषयेन्द्रियसम्बन्धातिरिक्तं नापेक्षते, रूपप्रत्यक्षं तु वदतिरिकालो कादिसंपादनमपेक्षत इति तस्याप्रामाण्यं स्यादिति ॥
सर्वत्रेति । ज्ञानं हि विचारात्मकं, न तु विचारकम् ; विचारकस्तु पुरुष एवेत्यर्थः। अस्तु तौंपचारिकमेव ज्ञानस्य विचारकत्वम् -- इत्यत्राप्याह-- अर्थ स्पृशत इति। अर्थजन्यस्येति यावत् ।
रूपक्षा-
ख
माता-ख.