________________
246
बौद्धसम्मतप्रत्यक्षलक्षणनिराकरणम् न्यायमञ्जरी [इन्द्रियसनिकर्षस्य फलेनाव्यवधानोपपादनम] यच्चेदमुच्यते--सोऽर्थो व्यवहितो भवेत्' इति - तन्न विद्मः, कीदृशं व्यवधानमर्थस्येति । न हि दीपेन वा मनसा वा विज्ञानहेतुना कदाचिदर्थो व्यवधीयते। मनोवञ्च' वाचकस्मृति रपि सामप्रयन्तर्गता सती तत्प्रतीतो व्याप्रियत इति कथमर्थ व्यवदधीत ॥
स्मृतिविषयीकृतः शब्दः तमर्थ व्यवधत्त इति चेत्--नशब्दस्य तत्प्रकाशकत्वेन ज्ञानवत् दीपवता व्यवधायकत्वाभावात् । न चेन्द्रियव्यापारतिरोधानं व्यवधानम्। तस्याधुनाप्यनुवर्तमानत्वात् ॥
यथा तद्भावभावित्वादाद्यं विज्ञानमक्षजम्। . .
तथा तद्भावभावित्वादुत्तरं ज्ञानमक्षजम् ॥ ८३ ॥ न हि वाचकस्मरणानन्तरं अक्षिणी निमील्य विकल्पयतिपटोऽयमिति ॥
अथ. यावद्वाचकविज्ञानं हृदयपथमवतरति तावत्सोऽर्थः क्षणिकत्वादतिक्रान्त इति व्यवहित उच्यते -- तदपि दुराशामात्रम् । क्षणभङ्गस्योपरिटानिराकरिष्यमाणत्वात् (७ आलिके) ॥
तत्प्रतीतो--अर्थप्रतीतो। व्याप्रियत इति । तथा च शब्दस्मरणस्यापि सामग्रथन्तर्गतत्वेन तस्य व्यवधायकत्वं न संभवतीत्यर्थः ।।
व्यवधत्त इति । इन्द्रियसन्निकर्षादेरिति शेषः । अनुपदोक्तमजानानं प्रति तदेव स्पष्टयति-शब्दस्येति । तत्प्रकाशकत्वेन-अर्थप्रकाशकत्वेन । अव्यवधायकत्वे दृष्टान्तः - जानवदीपवदिति । ननु व्यवधान इन्द्रियव्यापारव्यवच्छेद एवेत्याशङ्कय समाधत्ते न चेति ॥
तद्भावभावित्वात् -- इन्द्रियान्वयव्यतिरेकानुविधायित्वात् । आद्यं विज्ञान--निर्विकल्पकम् । उत्तरं-- सविकल्पकमपि ॥
हृद्गतं प्रकाशयति --अथेति । यावत्तावच्छब्दौ कालावधिपरौ ।
'वत्-क.
'रप्यसा-ख.
त-क.