________________
आह्निकम् २ ]
विकल्पानां प्रामाण्यसमर्थनम्
यः प्रागजनको बुद्धेः स लब्ध्वा सहकारिणम् । कालान्तरेण तां बुद्धिं विदधत् केन वार्यते ? ॥ ८२ ॥ व्यतिरिक्ताव्यतिरिक्तोपकारकरणादिविकल्पास्तु ( ७ आह्निके) निराकरिष्यन्ते ॥
रूपग्रहणे च चक्षुषः प्रदीपाद्य'पेक्षायां दुष्परिहारास्ते . विकल्पाः । 'न वै किञ्चिदेकं जनकम्' इति भवन्तोऽपि पठन्ति ! इति भवत्पक्षेऽपि तुल्यास्ते । यद्युभयोर्दोषः, न तेनैकश्चोद्यो भवति । तस्मात् ' उपयोगा विशेषतः' इत्यसिद्धो हेतुः । अयमेवोपयोगविशेष:, यत् इन्द्रिया' लोकमनस्कार' विषयव'द्वाचकस्मरणमपि सामग्रय'न्तर 'मेतत्प्रत्ययजन्मनि व्याप्रियत इति न वाचकस्मरणजनितत्वेन स्मार्तत्वादप्रमाणं विकल्पः । रूपस्मृत्याख्य समनन्तरप्रत्ययनिर्मितस्य निर्विकल्पस्य रूपज्ञानस्यापि तथात्वप्रसङ्गात् ॥
इत्याह - य इति । यः - हेतुः प्राक् - सहकारिसमवधानात् प्राक् बुद्धेरजनक आसीत् स एव हेतु: सहकारिणं कालान्तरेण लब्ध्वा तामेव बुद्धिं विदधत् केन वारयितुं शक्यत इत्यर्थः ॥
ननु सहकारिणोऽप्यसंभव उपपादितः -- इत्यत्राह - व्यतिरिक्ताव्यतिरिक्तेति । इदं उपकारविशेषणम् ||
1 देर-ख.
245
क्षणभङ्गभङ्गे
ज्ञान
सहकार्यपेक्षणमात्रात् करणत्वं नापैतीत्यत्र निदर्शन प्रतिबन्दी चाह ---- रुपेत्यादि । अधिपतिसहकारिसमनन्तरालम्बनप्रत्ययाश्चत्वार्यपि साधनानीति खलु तैरुच्यन्ते । तत्र दीपादय: सहकारिप्रत्ययाः भवन्मते कथं सहकारिणो भवेयुः इति । किश्चिदेकं न वै जनकं इत्यन्वयः । एकमेव फलोपधायकं न भवति, किन्तु मिलितमेवेत्यर्थः । ते - उक्त विकल्पाः । इन्द्रियेत्यादि । अधिपत्यादीनां यथासंख्यं अन्वयः । तत्र प्रकृते मनस्कारः समनन्तरप्रत्ययः रूपाद्यालोचनाज्ञाने । रूपस्मृतीति । न हि रूपाविषयकं चाक्षुषं किञ्चिदुदेतुमध्यलम् । रूपाप्रतीतौ हि वस्तु कथं प्रतीयेत । अतश्च रूपस्मृत्याख्य समनन्तरप्रत्ययं विना निर्विकल्पोऽपि न भवेदवेत्याशयः ॥
2 विशेषादिन्द्रिया - ख.
३ विषयत्वव- ख.
4
न्तर्गत-ख.