________________
244 बौद्धसम्मतप्रत्यक्षलक्षणनिराकरणम्
न्यायमञ्जरी विकल्पाप्रामाण्यापादकप्रथमहेतुनिरास: तत्र तावन्न शब्दसंसर्गयोग्यार्थग्रहणद्वारकमसदर्थग्राहित्वमेषामप्रामाण्यकारणमभिधातुं युक्तम् , शब्दार्थस्य वास्तवस्य (३ भाहिके) समर्थयिष्यमाणत्वात् ॥
कः पुनरसाविति चेत् ? य एव निर्विकल्पके प्रतिभासते ॥
किं निर्विकल्पके सामान्यादिकमवभासते ? बाढमवभासत . इति (५ आह्निके) वक्ष्यामः ॥
अत एव बाध्यत्वमपि न प्रामाण्यापहारकारणमेषां वक्तव्यम: वृत्तिविकल्पादे'बर्बाधक'स्य (५ आह्निके) परिहरिष्यमाणत्वात् । बाधकान्तरस्य च नेद मिति प्रत्ययस्य शुक्तिकारजतज्ञानादिवत् . भवतैवानभ्युपगमात् ॥
[तत्रैव द्वितीयकल्पनिरासः नाप्य नन्द्रियार्थसन्निकर्षजन्यत्वं । सङ्कतंग्रहणकालानुभूतशब्दस्मरणापेक्षणादस्य वक्तव्यम् : सहकार्यपेक्षायामपि तद्व्यापाराविरतेः॥ घटपदार्थतैव न स्यात् । न हि पटेकदेशभूततन्तुमति पुरुषे पटवानिति प्रतीतिः ममा भवेत् । अत: सामान्यस्यैव दुर्निरूपत्वेनावस्तुत्वात् तद्विषयको विकल्प: भ्रान्तिरेवेति । वृत्तिविकल्पादीत्यत्रादिपदार्थः सामान्यप्रकरण एव द्रष्टव्यः ॥
असौ-शब्दार्थः॥
एकोक्त्या सप्तमकल्पोऽपि दूषित एवेत्याह । अत एवेति । यतो निर्विकल्पेऽपि सामान्यादिकमवभासते तत एव सविकल्पस्यापि निर्विकल्पवदेव बाध्यत्वमपि न भवेदेवेति । वृत्तिविकल्पादेरिति। कात्स्येन वर्तते ? उतैकदेशेन वर्तते ? इत्यादिपूर्वोक्तविकल्पस्येत्यर्थः ॥
__ द्वितीयं दूषयति-- नापीनि । सहकारी शब्दस्मरणादिरूपः। तयापारः-इन्द्रियव्यापारः। पूर्वोक्त(पु. 237)श्लोको विपरिणमय पठनीय
धि-ख.