________________
आह्निकम् २]
बौद्धसम्मतप्रत्यक्षलक्षणनिराकरणम्
243
---धर्मकीयुक्तप्रत्यक्षलक्षणनिराकरणम्
[ सविकल्पकानां प्रामाण्यसाधनम् ] अत्र प्रतिविधीयते-तदिदं संकीर्णप्रायमतिबद्ध विलपता भवता न नियतं किमपि विकल्पानामप्रामाण्य'कारण मिति स्पष्टमावेदितम्। तदुच्यताम्. किं शब्दार्थावभासित्वगीकृतमसदर्थवाचित्वं तदप्रामाण्यकारणमभिमतय ?
उत संङ्कतस्मृत्यपेक्षोपनतमनिन्द्रियार्थसन्निकर्षजत्वम् ? 'उत विशेष ग्रहणाद्यपेक्षावाप्तं बहुप्रयाससाध्यत्वम् ?
उत पूर्वापरपरामर्शशून्यचाक्षुपवैलक्षण्यवाचोयुक्तिसमर्पित विचारकत्वम् ?
उत निर्विकल्पकपरिच्छिन्नवस्तुग्राहितानिबन्धनमधिगताधिगन्तृत्वम् ?
उत भेदाभेद समारोपभणितमतस्मिंस्तदितिग्राहित्यम् ? ___उत वृत्तिविकल्पादिवाधितसामान्यग्रहणसूचितं बाध्यत्वमेवेति ॥
लक्षणे विकल्पवारणाय कल्पनापोढपदम् । विपर्ययवारणाय अभ्रान्तपदं इ भिक्षुणा धर्मकीर्तिना कृतमिति ॥
संकीर्णेति । प्रमाणभूतनिर्विकल्पकलक्षण्यमुच्यते, उच्यते चाप्रमाणभूतभ्रमबैलक्षण्यमिति विकल्पानां प्रामाण्याप्रागण्यसांकर्यमुक्तं भवतीत्यर्थः । पूर्वापरेति। पूर्वापरपरामर्श शून्यं यत् चाक्षुपं स्वलक्षणमात्राविषयक निर्विकल्प प्रमाणभूतं ज्ञानं तद्वलक्षण्योपपादनसामर्थ्यात् प्राप्तं यत् विचारकत्वमित्यर्थः । वृत्तिविकल्येति। अयमर्थः - सामान्य स्वाश्रये किं कास्न्थेन वर्तत? उतैकदेशेन ? आये घटत्वस्य एकस्यामेव घटव्यक्तौ परिसमाप्तया बटान्तरं घटत्वं न स्यात् । नान्त्यः, सामान्यस्य निरवयवत्वात । प्रत्येकं घटे घटत्वजात्यकदेशस्यैव सत्त्वेन यावद्धटत्वजातेरसत्त्वेन च तस्य
1 करण-ख.
विशेषण ल.
16*