________________
242 बौद्धसम्मतप्रत्यक्षलक्षणविचारः
न्यायमञ्जरी बाधको भवति, मरीचिष्विव जलवुद्धौ । इह तु न जात्यादि वस्वन्तरमस्ति, यतो वस्त्वन्तरात्मनाऽस्य ग्रहो भवेत्। व्यक्तिविषया एवैते 'सामान्यादि विकल्पाः। तस्माद्वस्त्वतरानवभासिप्वेषु न बाधकः प्रत्ययो जायते । तस्मान्न विपर्ययात्मानो विकल्पाः ॥
विपर्ययाद्वैलक्षण्येऽपि विकल्पानामप्रामाण्यमेव] न चैते प्रमाणम्, एतदुलिख्यमानस्य जात्यादेरपारमार्थिकत्वात्। अत एवं प्रमाणविपर्ययाभ्यामयमन्य एव चिाल्प इत्याचक्षत इत्यलं विस्तरेण ॥
एवमेताः प्रवर्तन्ते वासनामानिर्मिताः। . . कल्पितालीकभेदादिप्रपञ्चाः पञ्चकल्पनाः ॥ ८॥ एवं च पश्यता तासां प्रामाण्या मोद मन्दताम् ।
भिक्षुणा लक्षणग्रन्थे तदपोढपदं कृतम् ॥ ८१ किन्तु शुकिरिति ! द्वितीये न तथा ज्ञातुं शक्यते कस्याप्याकारल्यापरिशेषात् । यदा च सर्वविकल्पनिवृत्ति:, तदा त्वसौ परिनिवृत्त एव ; न तदाऽपि बाधकप्रत्ययावकाश इति। व्यक्तिविषयाः-- स्वरूपविषयाः । विपर्ययःविपरीतभानम् । तथा च एकत्र विद्यमानमन्यथावभासते। अन्यत्र तु अविद्यमानमेव भासत इति न तयोस्साम्यमिति ॥ ___न चैतावता विकल्पा: प्रमाणानि- - तौल्यनिषेधस्तु बाधकप्रत्ययवारणा. त्याइ नचत इति । अयमाशयः -यत्र बाधकप्रत्ययोदयः तत्रैवाप्रामाण्यमिति न निर्बन्धः। यादृशभ्रमविशेषस्थले कान्तारमध्यसकृद्दष्टरज्जुसादाबाधकप्रत्यय एव नोदति तेषां भ्रमत्वाभावप्रसङ्गात् । अतश्च असदर्थविषयत्वमेव भ्रमत्वमिति वक्तव्यम् । तच्च प्रकृतेऽपि तुल्यमिति । प्रमाण-- स्वलक्षणं निर्विकल्पात्मकम् । तथा सविकल्पकं- शुक्तिरजतज्ञान ल्यं, न वा स्वलक्षणज्ञानतुल्यन् । किन्तु उभयविलक्षणमेति । भेदादीत्यादिना अभेदपरिग्रहः। तदपोढपद-कल्पनापोढपदम् । तथा च प्रत्यक्षप्रमाण
सामानाधिकरण्यवैयधिकर०५-ख.
भेद-ख.