________________
· आद्विकम् २) कल्पनामेदाः
241 मेदारोपणरूपैव गुणवत्कर्मकल्पना।
तत्स्वरूपातिरिक्ता हि न क्रिया नाम काचन ॥ ७७ ॥ 'गच्छति देवदत्त इति देवदत्तस्यैवान्यूनानतिरिक्तस्य प्रतिभासात् ॥
विभिन्नयोस्त्वभेदेन प्रवृत्ता नामकल्पना ।
चैत्रोऽयमित्यभेदेन निश्चयो नामनामिनोः ॥ ७८ ॥ चत्र इत्ययं शब्दः, अयमित्यर्थः ; कीदृशमनयोस्सामानाधिकरण्यम् ॥
एवं दण्ड्ययमित्यादिमन्तव्या द्रव्यकल्पना । सामानाधिकरण्येन भेदिनोग्रहणात्तयोः ॥ ७९ ॥ [विपर्यग्र इव बाधकप्रत्ययाभावेऽपि कल्पनानां मिथ्यात्वम् ]
ननु! यद्यभेदे मेदं, भेदे चाभेदं आरोपयन्त्यः कल्पनाः प्रवर्तन्ते-तत्कथमासु बाधकः प्रत्ययो न जायते, 'शुक्तिका रजत बुद्धिवत् उच्यते-यत्र वस्तु वस्त्वन्तरात्मनाऽवभासते तत्र . तत्स्वरूपेति । कर्मवद्वस्तुस्वरूपेत्यर्थः। अन्यूनानतिरिक्तस्येति । न हि तिष्ठतो देवदत्तात् गच्छन् देवदत्तः न्यूनः, अतिरिक्तो वा दृश्यते । ‘स एवायं देवदत्तः इति प्रत्यभिज्ञा हि भवतां प्रमा इति भावः ॥ - विभिन्नयोः इत्यत्रापि नामनामिनोरित्यस्याकर्षः। कीदृशं इत्यधिक्षेपे ॥ ... एवमिति । यद्यप्यत्र दण्डोऽयमिति न प्रतीतिः, किन्त्वयं दण्डीति । अथापि दण्ड एव खलु विशेषणं, अतोऽस्ति भेद इत्यभिमान:। इममेवोत्तरत्र (पु. 249) निराकरोति ॥
यत्रेत्यादि। अयं भाव: --व्यवहारदृष्टया भ्रमो हि द्विविध:--- एकःपुरोवत्यैव एकं वस्तु वस्त्वन्तरात्मनाऽवभासते. यथा शुक्तिः रजततया । भपरस्तु- अविद्यमान एवं विद्यमान इव। यथा वेशोण्डकादि । तत्राद्यः धर्माध्यास:, द्वितीयस्तु धर्मिण एव । तत्राद्ये बाधको युक्तः - नेदं रजतं,
शुक्तिर्वा-क. .... NYAYAMANJARI