SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 240 बाधसम्मतप्रत्यक्षलक्षणविचार: न्यायमरा करुपनानामांसंस्पर्शिस्वम् । ... ___ यत्तु केषांञ्चिद्वकल्पानामिदन्ताग्राहित्वस्पष्टत्वादि रूपं तत् अर्थाविनाभाविनिर्विकल्पकदर्शन पृष्ठभावित्वावाप्ततच्छायासंसर्गज - नितं, न तु तेषामर्थस्पर्शः कश्चिदस्ति । अर्थात्मनो निर्विकल्पेनैव मुद्रितत्वात् ॥ तस्मादतास्विकाकारसमुल्लखपुरस्सगः । न यथावस्तु जायन्ते कदाचिदपि कल्पनाः ॥ ७४॥. कल्पनाभेदाः पञ्च चैते कल्पना भवन्ति-जातिकल्पना, गुणकल्पना, क्रियाकल्पना, नामकल्पना, द्रव्यकल्पना चेति। ताश्च क्वचिदभेदेऽपि भेदकल्पनात् , कचिच्च मेदेऽप्यभेदकल्पनात् कल्पना उच्यन्ते ॥ जातिजातिमतोमैदोन कश्चित्परमार्थतः।। भेदागेपणरूपा च जायते जातिकल्पना ॥ ७५ ॥ इदमस्य गोर्गोत्वमिति न हि कश्चिद्भेदं पश्यति । सेनामेदे मेदकल्पनेव॥ एतया सदृशम्यायान्मन्तव्या गुणकल्पना। तत्राप्यभिन्नयोभैदः कल्प्यते गुणतद्वतोः ॥ ७६ ॥ तथा चाहुः एष गुणी रूपादिभ्योऽर्थान्तरत्वेन 'नास्मानं नो दर्श'यति ; तेभ्यश्च व्यतिरेकं वाञ्छसीति चित्रम् ॥ ___ पृष्ठभावित्वेति । निर्विकल्पकेण स्वरूपे गृहीते हि विकल्पानामवसरः । स्वरूपस्यैवाग्रहणे आकाराणां कुन कल्पना ? निरधिष्ठानस्य भ्रमस्यासंभवात् । माध्यमिकातिरिक्कैः बौद्धैः निरधिष्ठानो भ्रमो नाङ्गीक्रियत इति स्मर्तव्यम् ॥ अस्य गोः इदं गोत्वं इत्यन्वयः। न हि कश्चिद्भदं पश्यतीति । घटपटयोरिवेति भावः। यद्यपि भेदं व्यवहरति. तथापि न पश्यति । व्यवहारस्त्वन्यथासिद्ध इति भाव: । एवमुत्तरत्रापि ॥ तेभ्यः--रूपादिभ्यः। व्यतिरकं-स्वस्य गुणिन इति शेषः ॥ नारमात्नं दशे-न.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy