________________
भाविकम् २] बौरोत कस्पाईविष्यम्
239 नयती प्रक्रियां प्रथमनयनोपनिपातजातमविकल्प शानमुद्रोदु नममित्याह-(प्र. वा. 3-174)
'" सङ्केतस्माणोपायं दृष्टसङ्कलनात्मकम् । . पूर्वापरपरामर्श'शून्ये तवाक्षुरे' कथम्” इति ॥
[विकल्पद्वैविध्यम्] तत्रैतत् स्यात् द्विविधा विकरुणा, छात्रमनोरथविरचिताः, इदन्ताग्राहिणश्च नीलमित्यादयः। तत्र पूर्व मा भूवन् प्रमाणम् । कस्तेष्वर्थनिरपेक्षजनासु प्रामाण्येऽभि निविशेत' ! इदन्ताग्राहिणां त्वांविनामृतत्वात् कथं न प्रामाण्यम ? इति-- उच्यते-सर्व एवामी वालाः परमार्थतोऽर्थ न स्पृशन्त्येव । स हि निर्विकल्पकेनैव सर्वात्मना परिच्छिन्नः। तदुक्तम्
"एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो नदृष्टो भागः स्थात् यः प्रमाणैः परीक्ष्यते” इति ॥
इयती प्रक्रियामिति । विलम्बहे मिति यावत् । संकेतेत्यादि । नामविकल्पाभिप्रायेण संवे.तस्माणमत्रोक्तम् । सविकल्पकं हि संकेतस्मरणाग्रुपायजन्यम् । चाक्षुषं तु पुरोवृत्तिस्वलक्षणवस्तुमात्रविषयकं, इन्द्रियसन्निकर्षः तावस्येव खलु विश्रान्तः । अत: नामादिकल्पनानां चाक्षुषे निर्विकल्पके कथभवकाश इत्यर्थः। उपायपदं नपुंसकलिङ्गेऽपि बौद्धसम्मतम् ॥
- छात्रा:-बाला इति यावत् । अमी विकल्पाः -छात्रमनोरथकल्पिताः इदन्ताग्राहिणश्च । सः- परमार्थभूत: अर्थः। सर्वात्मनेति । स्वरूपस्य निर्विकल्पेनैव गृहीतत्वात् स्वरूपातिरिक्तस्य च धर्मादेः कल्पितत्वात न हि ज्ञातव्यान्तरमवशिष्यत इति भावः । एकस्येत्यादि। वस्तूनां स्वरूपं त्वेकरूपमेव, तच्च स्वरूपं प्रत्यक्षेण गृहीतम् । स्वरूपातिरिक्तं तु किञ्चिदपि नास्त्येव । अतश्च प्रत्यक्षेणागृहीतस्यांशस्य स्वरूपेऽसंभवात् कुतः प्रमाणान्तरगवेषणमित्यर्थः। नदृष्टः इत्येक पदम् ॥
शून्यं तश्चानुषं-ल.
निवेश:-.