________________
238 बौद्धसम्मतप्रत्यक्षलक्षणविचार:
न्यायमचारी [विकल्पानामनिन्द्रियजस्वम् सङ्केतस्मरणसहकारिसव्यपेक्षमक्षमीदृशीं वुद्धिं जनयतीति चेत्-न-व्यतिरिक्ताव्यतिरिक्तोपकारादिविकल्पैः सहकारिणो निरसात्वात्। किञ्च दण्डीत्यादिविकल्पविज्ञानं नेन्द्रियापातवेलायामेव जायते ; किन्तु बहुप्रक्रियापेक्षम्। यदाह-(प्र. वा. 3-1-15)
“विशेषणं विशेष्यं च संबन्धं लौकिकी स्थितिम । । गृहीत्वा 'सकलं चैतत् तथा प्रत्येति नान्यथा ॥” इति ॥
ननु शब्दस्मरणस्य स्वातन्त्र्येण प्रत्यक्षकरणत्वं नास्त्येव, किन्तु समिकर्षवत् इन्द्रियसहकार्येवेति न तेन व्यवधानमिति शङ्कते-- सङ्केतेति । व्यतिरिक्तत्यादि। वस्तूनां क्षणिकत्वसाधनावसरे कथितोऽयं विचारों बौद्धैः। कुसूलस्थत्रीजैः अंकुराकरणात क्षेत्रस्थत्रीजैरकुरकरणाच करणाकरणयोरेकत्र विरोधात् कुसूलस्थवीजमन्यत, क्षेत्रस्थवीजं चान्यदिति वक्तव्यम्। सहकारिसमवधानवशात् कुसूलस्थं बीजमेवार जनयतीति तु न वक्तुं युक्तम् । सहकारिण: किं बीजस्योपकुर्वन्ति? उत स्वातन्त्र्येणाङ्करं जनयन्ति ? उत किञ्चिदपि न कुर्वन्ति ? न तृतीयः, सहकारित्वासंभवात् । न मध्यमः, बीजस्याकरणत्वं तदा ह्यापद्येत । न प्रथमः, सहकारिभिः संपाद्यमान उपकारः किं बीजस्वरूपादतिरिक्त: ? उत न ? यदि न, तर्हि बीजस्वरूपातिरिक्तोपकाराकरणात् व्यर्थाः सहकारिणः, बीजस्वरूपं हि पूर्वमेव सिद्धम्। यदि चातिरिक्तः, तर्हि ये महकारिणः बीजातिरिक्तमुपगारमतिशयं वा संपादयन्ति ते स्वातन्त्र्येण कार्य मेव निर्वतयन्तु, किं मध्ये बीजेन कर्तव्यम् । 'तद्धेतोरेव तद्धेतुत्वे मध्ये किं तेन' इति न्यायात् । तथा चान्वयव्यतिरेकवशात् सहकारित्वेनाभिमतानामेव करणत्वं समायास्यतीति । अयं च न्यायः प्रकृतेऽपि तुल्य इति विकल्पा: नेन्द्रियजन्या इति । इन्द्रियापात:--प्रथमाक्षसन्निपात:। लौकिकी स्थिति मिति। पादादिसुंयुक्ते सति दण्डे दण्डीति व्यवहारामावात, यादृशरीत्या सम्बन्धे विशिष्टव्यवहारः लोकसम्मत: तादृशवैलक्षण्यं चेति तात्पर्यम् । तथा--- दण्डीत्यादिरीत्या ॥
संकनम्तव इति प्रमाणवातिकपाठः।