________________
माह्निकम् २) बोझैः विकलानां अप्रामाण्योपपादनम्
237 न चेन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधायिनी कल्पना बुद्धिः; तमन्तरेणापि भावात् , तस्मिन् सत्यपि च पूर्वानुभूतवाचकशब्दयोजनं विनाऽनुत्पादात् । यदि च इन्द्रियार्थसत्रिकर्षः तज्जनको भवेत् , प्रथममेव तथाविधां धियं जनयेत् , न च जनयति। तदयं शब्दस्मृतेर्वमपि न जनक इति मन्यामहे ॥ तदुक्तम्“यः प्रागजनको बुद्धेः, उपयोगाविशेषतः।
स पश्चादपि, तेन स्यादापायेऽपि नेत्रधीः॥" इति ॥ अपि च-सत्यपीन्द्रियार्थसंसर्गे 'स्मृत्यपेक्षायां' सोऽर्थस्तयैव व्यवहितः स्यात्। आह च
"अर्थोपयोगेऽपि पुनः स्मात शब्दानुयोजनम् ।
अक्षधीयद्यपेक्षेत सोऽथों व्यवहितो भवेत् ॥” इति । - भावादिति। शुक्तिरजतादिविकल्पानामुत्पसेरित्यर्थः। तस्मिन्इन्द्रियार्थसनिकर्षे। प्रथममेव-निर्विकल्पककाल एव । शब्दम्युत्पत्ते: पूर्वमेवेति वा । तथाविधां-भमिलापसंसर्गादिवतीम् ॥ . यः प्रागित्यादि। य: इन्द्रियसनिकर्षः प्रा-वाचकशब्दोपस्थितेः पूर्व बुद्धेः-विकल्पास्मिकाया भजनकः-जननासमर्थ इति यावत् ; स: समिकर्षः पश्चादपि-शब्दस्मृत्यनन्तरमपि उपयोगाविशेषतः तदधीनोपयोगे विशेषाभावात् अजनक एव। अत: अर्थमन्तराऽपि विकल्प उदेतुं प्रभवत्येवेति। उपयोगः-उपकारः ॥
- तयैव-स्मृत्यैव । अर्थोपयोगेऽपीति । अक्षधी:-प्रत्यक्ष अर्थेविषये उपयोगेऽपि - अर्थग्रहणण्यापूतावपि, यदि मध्ये स्मार्त शब्दस्मृत्यधीनं शब्दानुयोजन-अभिलापसंपर्ग यद्यपेक्षेत, तर्हि अर्थः तया स्मृत्या ग्यवहितो भवेदिति। तथा च शब्दस्मृत्या व्यवधानात् इन्द्रियं कथं सविकल्पं जनयेत् । स्मृत्यधीनं च सविकल्पं कथं वा प्रमाण म्यादिति भावः ॥
स्मत्यपेक्षया-ख.
स्वथैव-क.
.