________________
236
न्यायमचारी
बौद्धसम्मतप्रत्यक्षक्षणविचार:
[विकल्पानामप्रामाण्योपपादनम्] ननु ! अमिलापसंसर्गयोग्यप्रतिभासत्वादपि कमन्यं दोष मृगयते भवान् ! असदर्थ विषयत्वमेवेदमुक्तं' भवति, शब्दार्थस्य वास्तवस्याभावात् । स्वलक्षणस्य सजातीयेतरव्यावृत्तात्मनः सम्बन्धाधिगमसव्यपेक्षप्रवृत्तिना शब्देन विषयीकर्तुमशक्यत्वात् । तयतिरिक्तस्य वस्तुनोऽनुपलम्भात् ॥
धर्मोत्तराचार्येण --' अभिलप्यतेऽनेनेत्यभिलाप:- वाचकः शब्दः। अभिलापेन . संसर्ग: अभिलापसंसर्ग:-एकस्मिन् ज्ञानेऽभिधेयाकारस्याभिधानाकारेण सह . ग्राह्याकारतया मिलनम् । ततो यदैकस्मिन् ज्ञानेऽभिधेयाभिधानयोः कारो सन्निविष्टौ भवतः, तदा संसृष्टे अभिधानाभिधेये भवतः । (तथा च वाच्यवाचक- ' योरेकज्ञानविषयत्वं संसर्ग इत्युक्तं भवति)। अमिलापसंसर्गाय योग्य: अभिधेयाकारप्रतिभासः- यस्यां प्रतीतो सा तथोक्ता इति। अधिकं तत्रैव द्रष्टग्यम् ॥
कुत: उक्तस्य दोषस्वमित्यत्राह-असदर्थे त्यादि। स्वलक्षणज्ञानस्यातो वैलक्षण्यमाह-स्वलक्षणस्येति। निर्विकल्पविषयो वस्तुस्वरूपमात्रंस्वलक्षणम् । तद्यतिरिक्तस्य-स्वलक्षणव्यतिरिक्तस्य । वस्तुनः-परमार्थ. भूतस्य। भत्र ‘यस्यार्थस्य सविधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदः तत् स्खलक्षणम् । तदेव परमार्थसत्' (१-१३) इति न्यायबिन्दूक्तं स्मर्तव्यम् । एतदुक्त भवति। पुरोवर्तिनि वस्तुनि प्रथमाक्षसन्निपातसमनन्तरं यत् वस्तुस्वरूपमात्रविषयकं ज्ञानं तदेव निर्विकल्पं प्रमाणम् । अनन्तरं भासमानानां धर्माणां वासनाधीनत्वेन तद्विषयकं ज्ञानं सविकल्पमप्रमाणमेव, कल्पिताकारविषयत्वात् । तथोक्तम्-'परिवाटकामुकशुनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्यमिति तिम्रो विकल्पनाः' इति । एवञ यनिर्विकल्पं नामजात्यायगोचरं तदेव प्रमाण येत् नामजात्यादिगोचर सविकल्पमप्रमाणमेवेति कल्पनापोडं प्रत्यक्षमिति । शिष्टदलप्रयोजनं तु स्पष्टीभविष्यति ।
1विषयस्यागे तस्वमुता-ब.