________________
आह्निकम् २]
बौद्धसम्मत प्रत्यक्षलक्षणविचार :
तेनेन्द्रियार्थजत्वादिविशेषणगणान्वितम् । यतो भवति विज्ञानं तत् प्रत्यक्षमिति स्थितम् ॥ ७० ॥
इति विगतकलङ्कमस्य धीमान्
अकुरुत लक्षणमेतदक्षपादः ।
न तु पररचितानि लक्षणानि
क्षणमपि सूक्ष्मदृशां विशन्ति चेतः ॥ ७१ ॥
इति प्रत्यक्षसूत्रव्याख्यानप्रकरणम्
[परसम्मत प्रत्यक्षलक्षणपरीक्षा]
[ तत्र धर्मकयुक्त प्रत्यक्षलक्षणविचारः ] यत्तावत् कल्पनापोढमभ्रान्तमिति लक्षणम् । प्रत्यक्षस्य जग भिक्षुः तदत्यन्तमसांप्रतम् ॥ ७२ ॥ शब्दसंसर्गयोग्यार्थप्रतीतिः किल कल्पना । अस्याश्च केन दोषेण प्रामाण्यं न विपाने ॥ ७३ ॥
235
'न तु पररचितानि लक्षणानि ' इत्युक्तमेव विवृणोति - यदित्यादि । यद्यपि दिन 'प्रत्यक्ष कल्पनापोढं ' इतिमात्रमुक्तम् । परन्तु एवं सति • तिमिरादिदोषदूषितचक्षुत्रः प्रथमसन्निकर्षजन्मनां शुक्तिरजतादिज्ञानानां कल्पनापोढत्वादतिव्याप्तिरित्यालोच्य धर्मकीर्तिः अभ्रान्तप योजयामास । शुक्तिरजतज्ञानस्य भ्रान्तत्वात् निरासः । अभ्रान्तत्वमात्रोक्त अनुमानादावतिव्याप्तिः तेषां भ्रमत्वव्यवहाराभावात् । अत: कल्पनापोढ नति । तेषां पनारूपत्वेन व्युदासः । 'स्वलक्षणमेव परमार्थसत् । तदेव प्रत्यक्षे विषयः । सामान्यलक्षण तु अपरमार्थसत्, तच्चानुमानस्य विषयः' इति न्यायबिन्दुः । धर्मोत्तरचार्यस्तु ‘असत्यभ्रान्तग्रहणे गच्छदृक्षदर्शनादि कल्पनापोढत्वात् प्रत्यक्ष स्यात्' इत्याह ॥
7
भिक्षुः - बौद्धभिक्षुः धर्मकीर्तिः । जगाविति । न्यायबिन्दाविति (१-४) शेषः । शब्देत्यादि । ' अमिलापसंसर्गयोग्यप्रतिभासा प्रनीति: कल्पना ' (१-५) इति म्यायबिन्दुवाक्यामुवादोऽयम् । इदं च न्यायबिन्दुवचनमेवं व्याख्यातं